________________
४२
साहित्यसारम् ।
तथाच वृद्धसिद्धान्तसुगन्धेद्धधिया मया । साध्वेवोक्तं पिकेनेव तद्विकासेच्छुनाधुना ॥ ६३ ॥
[ पूर्वार्धे
**
बीजत्वेन प्राचामेव लक्षणं तदाशयं विशदयन् - तदिति । तत्तस्मात्पूर्वोक्तालक्ष्यबोधकस्य लक्षकधर्मस्वधर्मत्वानुपपत्तिरूपात्कारणादित्यर्थः । सः शक्यसंबन्धः अर्थगोऽपि संयोगादिरूपत्वेन प्रवाहादिपदार्थनिष्ठोऽपि शब्दैकान्वयादेः गङ्गादिशब्दमात्रान्वयव्यतिरेकाभ्यामित्यर्थः । तौ च गङ्गायां घोष इत्यादिशब्दश्रवण एव लक्षणया तीरे घोष इत्यादिशाब्दबोधो जायते तदभावे तु नेत्याकारकावेव । लक्ष्यबोधतः लक्ष्यस्य तीरादेर्बोधतः शाब्दबोधाद्धेतोरित्यर्थः । आह्लादकत्ववत् पुत्रस्ते जात इति वाक्यश्रोतुः पुत्रजन्मरूपार्थावबोधेनाहादो जायत इति तदाह्रादकत्वं यद्यप्युक्तार्थनिष्ठमेव तथापि शब्दान्वयव्यतिरेकाभ्यां यथा शब्दनिष्ठत्वेनापि लोके व्यवहियते नोचेदाह्लादकोऽयं शब्दः श्रुत इति व्यवहारो न स्यात्तद्वदित्यर्थः । शब्देऽपि गङ्गादिशब्देऽप्यस्ति वर्तत इत्यर्थः । इत्येव अयमेव तदाशयस्तेषां पूर्वाचार्याणामाशयोऽभिप्राय इत्यर्थः । अयं भाव:- शक्यसंबन्धो लक्षणेति तेषां राद्धान्तः । तत्र शक्यस्य गङ्गादिपदनिष्टशक्तिविषयस्य यः संबन्धस्तीरादिना सह संयोगादिधर्मविशेषः स लक्षणेत्यक्षरार्थः । स धर्मस्तावद्यद्यप्यर्थनिष्ठ एव तथापि निरुक्तशब्दान्वयव्यतिरेकवशाच्छब्दनिष्ठोऽपि वक्तव्यस्तथा च तस्य धर्मस्यार्थानेष्टत्वेन संबन्धसाधारणत्वं शब्दनिष्टत्वेन लक्षणात्वं च संभवत्येव । आह्लादकत्वदृष्टान्तेनार्थनिष्ठस्यापि धर्मस्य यच्छब्दनिष्टत्वं सर्वत्रानुभूयते तदप्यारोपादेवान्यथानुपपत्त्याङ्गीकार्य नोचेत्प्रकारान्तरेण तस्य सुतरामसंभवात् । एवं चारोपितशाब्दवृत्तिले सतीत्यादि मत्परिष्कृतलक्षणमेव पर्यवसन्नमिति । नचायमेव प्राचामाशय इति त्वया कथं निर्णीयत इति वाच्यम् । अन्यथाऽनुपपत्तेरेव तत्साधकत्वात् । उक्तं हि श्रीमद्वार्तिकाचार्यचरणैः - ' अन्यथानुपपत्तिश्चेदस्ति वस्तुप्रसाधिका । पिनष्टयदृष्टिवैमत्यं सैव सर्वबलाधिका' इति । नन्वेवमप्येकस्य संयोगादेः पदार्थान्तरे आरोपितत्वेन रूपभेदः कार्यभेदश्च क्व दृष्ट इति चेन्न । शुक्तिशकलबहुलालोकसंयोगे तथा दृष्टत्वात् । तथाहि शक्यालोकसंयोग एवेदं रजतमिति भ्रमे रजतालोकसंयोगत्वेनापि भासते रजतग्रहणप्रवृत्तिहेतुश्च भवतीति प्रसिद्धमेव । तस्मान्निरुक्तमेव तत्तात्पर्यमिति दिक् ॥ ६२ ॥ एवं प्राचां रहस्यं प्रकाश्य स्वोक्तं लक्षणालक्षणं निगमयति - तथाचेति । तथाच एवं पूर्वाचार्यतात्पर्ये सिद्धे सति अधुना प्रकृतलक्षणानिरूपणावसरे अद्येत्यर्थः । मया यदुक्तं लक्षणालक्षणं अथारोपेण शाब्दीत्यादिना कथितं तत्साध्वेव शक्यसंबन्धो लक्षणेति प्राचीनोक्तलक्षणपरिष्कारत्वेन तदविरुद्धत्वेन च रमणीयमेवेत्यर्थः । तत्रानुरूपं दृष्टान्तमाह — पिकेनेवेति । कोकिलेनेवेत्यर्थः । एतेन यथा कोकि -
1