SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ऐरावतरणम् २] सरसामोद व्याख्यासहितम् । यहि लक्षnaisसौ लक्ष्यधर्मः कथं भवेत् । नहि राधाकटाक्षस्य तैक्ष्ण्यं कुञ्जेऽपि दृश्यते ॥ ६१ ॥ तत्सोऽर्थोऽपि शब्देकान्वयादेर्लक्ष्यबोधतः । आह्लादकत्ववच्छब्देऽप्यस्तीत्येव तदाशयः ॥ ६२ ॥ ४१ बोष इत्यादौ स्वं गङ्गापदं तच्छक्यः प्रवाहस्तसंबन्धः संयोगादिरूपस्तीरेऽस्तीति गङ्गायामिति पदस्य तीरे लक्षणेत्यर्थः इति । रसगङ्गाधरकारा अप्येवमेवाहुः - शक्यसंबन्धो लक्षणेति । इह भवदुक्ते लक्षणालक्षणरूपे विषये इत्यर्थः । अत्र किं वक्तव्यमिति चेदस्य मत्प्रश्नस्योत्तरमेवेत्याशयेन तमेव प्रश्नमुपन्यस्यति — शक्यस्येत्युत्तरार्धेन ।स निरुक्त: संबन्धः सा लक्षणा कथं नु स्यादिति योजना । नु इति वितर्के । | कथमित्याक्षेपे । संयोगादेः संबन्धस्य लक्ष्यधर्मत्वेन लक्षकधर्मरूपलक्षणावृत्तित्वं कथमपि वक्तुमशक्यमेवेत्यर्थः॥६०॥तदेवोपपादयति-योहीति । अत्र यद्यपि प्रकृतविपरीत एवोद्देश्यविधेयभावः प्रतीयते । तथाहि प्रकृते तावत् शक्य संबन्धं लक्ष्यधर्ममेवोद्दिश्य तत्र लक्षणाशव्दितं लक्षकर्मत्वमेव विधीयत इति । तथापि न क्षतिः । घटः पटो न भवतीत्युक्ते पटो घटो न भवतीत्यपि यथा लोकेऽर्थादेव सिद्ध्यति तद्वत्प्रकृतेऽपि विवक्षितत्वादिति तत्त्वम् । लक्षको गङ्गादिशब्दः तस्य धर्मो लक्षणेति प्रसिद्धमेव नोचेलक्षणायां शब्दवृत्तित्वभङ्गापत्तिः स्यात् । असौ लक्षणाख्यो लक्षकशब्दधर्मः लक्ष्यधर्मः लक्ष्यस्य तीरादेः प्रवाहादिना साकं संयोगादिरूपो धर्मः कथं भवेत्, शक्यसंबन्धो लक्षणेति निरुक्तलक्षणा लक्षणमात्रणे स्यात्किं लक्ष्यानुरोधेन लक्षणं कार्य नतु लक्षणानुरोधेन लक्ष्यमपि व्यवस्थाप्यमिति न्यायो नैव भवेदित्यर्थः । तत्र व्यतिरेकिणं दृष्टान्तमाह-नहीति । राधेति । राधायाः कटाक्षः श्रीकृष्णं प्रति यमुनापुलिनादौ वृन्दावनगतनिकटवर्ति मालतीकुञ्जख्यविलाससंकेतस्थानसूचकलोचनव्यापारविशेषस्तस्येत्यर्थः । तैक्ष्ण्यं स्मरशरसहस्रादप्यधिकविकलतापादकत्वेनातिदुःसहत्वमित्यर्थः । कुञ्जे निरुक्तलतागृहे दृश्यते नहि । नैवानुभूयत इत्यर्थः । अत्र अपिशब्देनेदं सूचितम् । यदि लक्षकधर्मस्य लक्ष्यधर्मतापि स्याच्चेदुक्तकटाक्षेऽपि निरुक्तसंकेतलक्ष्यत्वात्तद्धर्मस्य निरुक्ततैक्ष्ण्यस्य निरुक्तरीत्या लक्षीभूतं कुजधर्मत्वमपि दृश्येत तत्तु न दृश्यत इति नैवेदमुचितमिति । अत्रैवं प्रयोगः - लक्षणाख्यो लक्षकगङ्गादिशब्दधर्मः शक्यसंबन्धो लक्षणेति तलक्षणवशात्तीरप्रवाहसंयोगादिरूपः संयोगस्य द्विष्टत्वेन तीरादेर्लक्ष्यस्य धर्मो नैव भवितुमर्हति लक्षकधर्मत्वात् राधाकटाक्षतैक्ष्ण्यवदिति । नच लक्षकधर्मस्याप्यनित्यत्वादेर्लक्ष्येऽपि दर्शनादप्रयोजकत्वमितिवाच्यम् । लक्ष्यबोधकेति हेतौ विशेषणीयत्वात् । तस्माद्विचार्यमिति ॥ ६१ ॥ नन्वेवं यदि प्राचां ग्रन्थान्दूषयसि तर्हि त्वया 'दुनोति नानया पूर्वसुमनोहृदयं गिरा' इत्यादिस्वप्रतिज्ञां भङ्गयता स्वात्मैव दूषितः स्यादिति चेत्सत्यम् | यदि मया तद्रन्थेषु दूषणं दीयते किंतु तदाशयविवरणार्थमेव किंचिदाक्षिपामीत्याशयेन तद्व्यवस्थापयति स्वोक्तलक्षण
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy