________________
४०
.
साहित्यसारम् ।
[ पूर्वार्धे यदुक्तं शक्यसंबन्धो लक्षणेति वदन्त्विह।
शक्यस्य स्रोतसस्तीरे संयोगः स कथं नु सा ॥६०॥ पपत्त्येव 'उपक्रमादिभिर्लिङ्गैस्तात्पर्य वक्तुराशयः' इति प्रागुक्तलक्षणस्य तात्पर्यस्य या अनुपपत्तिः यष्टीः प्रवेशयेत्यादौ यष्टीनां प्रवेशान्वयसंभवेऽपि प्रयोजनाभावाद्यष्टिधरप्रवेशन एव यत्तात्पर्य तस्य प्रकारान्तरेणाघटमानता तयेत्यर्थः । अवधारणं तु गङ्गायां घोष इत्यत्रान्वयानुपपत्तेरपि लक्षणाबीजत्वसंभवेऽप्युक्तस्थले व्यभिचारात्तब्युदासार्थमेव । शक्येति । शक्यं गङ्गादि तेन संबद्धं तीरादि तस्यबोधिका ज्ञापिकेत्यर्थः । तदुक्तं पूर्वमीमांसावार्तिके-'मानान्तरविरोधे तु मुख्यार्थस्यापरिग्रहे । मुख्यार्थेनाविनाभूते प्रवृत्तिलक्षणेष्यते' इति । एतादृशी या वृत्तिः शब्दनिष्टो धर्मविशेषः सा लक्षणोच्यत इति संबन्धः । एवं चारोपितशाब्दवृत्तित्वे सति तात्पर्यानुपपत्तिमात्रेण शक्यसंबद्धबोधकत्वं लक्षणात्वमिति तल्लक्षणं फलितम् । यष्टीः प्रवेशयेत्यत्र लाक्षणिकाद्यष्टिपदाद्यष्टिरूपशक्यार्थस्मृतावतिव्याप्तिव्यावृत्तये सत्यन्तम् । तत्रैकसंबन्धिज्ञानमपरसंबन्धिस्मारकमिति न्यायात्तात्पर्यानुपपत्तिमात्रेण शक्यो यो यष्टिपदार्थस्तेन संबद्धा ये यष्टिधराः पुरुषास्तद्बोधकत्वस्य सत्वात् ।सत्यन्तनिवेशे तूक्तांशसत्वेऽपि स्मृतित्वादुक्तवृत्तित्वं नास्तीति नातिव्याप्तिः। एवं तर्हि पूर्वदलमेवास्तु लक्षणं, किं गौरवापादकेनोत्तरदलेनेति चेन्न । गङ्गायां घोष इत्यत्र पावनत्वादयो धर्मास्तटे नियमेन प्रतीयन्ते तद्धेतुभूतायां लक्षणामूलव्यअनावृत्तावतिव्याप्त्यापत्तेः, कुतः तस्यां लक्षणामूलत्वेनारोपितशाब्दवृत्तित्वस्य सत्वात् । लक्षणाया अर्थधर्मत्वं तु सद्य एवोक्तम् । नन्वेवमपि लक्षणे तात्पर्येत्यादितृतीयान्तं मास्त्वेव गौरवादिति चेत्सत्यम् । तथापि गङ्गायां घोष इति वाक्यान्मत्स्योपस्थितिः किमिति न भवतीति प्रश्नापत्तिः । नच तथापि श्वेतो धावतीत्यादौ लक्षणायामव्याप्तिः । अन्वयानुपपत्तेरेव तत्र लक्षणाबिजत्वादिति वाच्यम् । धावतीत्युपसंहारे गमनस्याश्वादिविषयकतात्पर्यस्यानुपपत्तेस्तत्रापि सत्वात् । तर्हि विनिगमकाभावाद्गङ्गायां घोषः शोणो धावति मञ्चाः क्रोशन्तीत्याद्यनेकोदाहरणेषु दृष्टत्वादन्वयानुपपत्तेरेवास्तु तद्बीजत्वमित्यपि नाशङ्कयम् । एतेष्वप्युदाहरणेषूक्तयुक्त्या तात्पर्यानुपपत्तेरप्यनुगतत्वेन छत्रिणो यान्ति, कुन्ताः प्रविशन्ति, काकेभ्यो दधि रक्ष्यतां, विषं भुवेत्यादिषु चान्वयानुपपत्तेरसत्त्वेन तात्पर्यानुपपत्तेरेव सत्वात् तस्या एव सर्वत्र तद्बीजत्वमिति सर्वमवदातम् ॥ ५९॥ अथ शक्यसंबन्धो लक्षणेति लाघवात्तार्किकायुक्तं लक्षणमेव किमिति नाद्रियत इत्याशङ्कायां तस्य लघुत्वेऽपि विचारे क्रियमाणे तत्वीकर्तुरपि लघुत्वमेवापततीति द्योतयितुं तदनुवदति-यदुक्तमिति । तथाचोक्तं न्यायसिद्धान्तमञ्जरीकारैः 'खशक्यसंबन्धो लक्षणा । अस्तिहि गङ्गापदशक्यः प्रवाहविशेषस्तत्संबन्धस्तीरे' इति । विवृतं चेदं तर्कप्रकाशकारैः-स्वशक्येति । खं लाक्षणिकं पदं तस्य यच्छक्यं तत्संबन्धो लक्षणेत्यर्थः । इदमेवोपपादयति-अस्तीति । गङ्गायां