SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २ ] सरसामोदव्याख्यासहितम् । अन्यथानुपपत्त्यापि श्रुतस्यार्थद्वयावभा । यत्र तत्राप्यर्थयुगेऽप्यभिधैवास्ति तद्यथा ॥ ५७ ॥ द्विजिह्वराजजिह्वाग्ररसास्वादेन मोदसे । सहुरो करुणाकल्पतरो मां किमुपेक्षसे ॥ ५८ ॥ अथारोपेण या शाब्दी शक्यसंबद्ध बोधिका । तात्पर्यानुपपत्त्यैव वृत्तिः सा लक्षणोच्यते ॥ ५९ ॥ ३९ I 1 गुरुवरस्य ब्रह्मोपदेष्टुः सेवनात्क्रमेण चिन्तनादनुष्ठानान्निवसनादभ्यसनादाराधनाच्च शोभते । सततं भ्राजत इत्यर्थः । तत्र हेतुं वदंस्तीर्थराजं विशिनष्टि - निजदर्श - नेति । खप्रत्यक्षमात्रेण निर्मूलितेति । निर्मूलिता विध्वंसिता मलानां दोषाणामावलिः पङ्क्तिर्येन तस्य ॥ ५६ ॥ एवं यत्र श्रुतार्थस्यान्यथानुपपत्त्यावश्यमर्थद्वयावभासो वर्तते तत्र स्थलेऽप्युभयोरप्यर्थयोः शक्तिवृत्तिरेव बोध्येत्यभिधत्ते - अन्यथेति । अपिशब्दोऽत्रानुपदोक्तप्रकरण हेतुकार्थद्वयशक्तिसमुच्चयार्थः । श्रुतस्येति पदमन्यथानुपपत्त्येत्यनेन संबध्यते । श्रुतस्य लोकादौ ज्ञातस्यार्थस्यान्यथा प्रकारान्तरेणानुपपत्त्या। अघटमानतयेत्यर्थः । एवं यत्र यस्मिन्नुदाहरणे अर्थद्वयावभा अर्थयुगुलस्य भानं वर्तते तत्रापि स्थळे अर्थयुगेऽपि भासमानार्थयुग्मेपि अभिधैवास्ति शक्तिवृत्तिरेव भवति तत् निरुक्तार्थद्वयशक्तिस्थलं यथा अमुना वक्ष्यमाणप्रकारेण ज्ञेयमित्यर्थः ॥ ५७ ॥ तदुदाहरति — द्विजिह्वेति । अयि सद्गुरो, एवं चोद्धारकान्तरराहित्येनोपेक्षकत्वानर्हत्वं ध्वनितम् । लम् द्विजिह्वेति द्वे जिह्ने रसने येषां तेषां सर्पाणां राजा शेषावतारः पतञ्जलिः तस्य या जिह्वा तस्याः रसस्तद्रचितग्रन्थमुख्यांशीभूतं योगशास्त्रं तस्यास्वादः तदुक्ताभ्यासानुभवस्तेनेत्यर्थः । पक्षे द्विजिह्वाः मिथ्याभाषिणः । सूचका इतियावत् । स्पष्टमन्यत् । मोदसे । उन्मन्यवस्थया तुष्यसीत्यर्थः । एतेन सद्गुरुत्वमेव समर्थितं भवति । पक्षे पिशुनशिरोरत्नवाक्सारतुष्टस्य तवेषदपराधित्वान्मदुपेक्षानुचितैवेति सूचितम् । यद्वा शिवाभिन्नत्वात् गरलतृप्तस्य तवेयमयुक्तेति वा । एवमपि नैवोद्धारणोत्साह इत्याशङ्कय विशिनष्टि – करुणेति । करुणामयः कल्पतरुरिव सद्यः प्रार्थितदातृत्वात्कल्पतरुस्तत्संबुद्धौ । अत्र श्रुतं यत्खोपेक्षणानर्हत्वं तदन्यथानुपपत्त्या पतञ्जलिपिशुनाधिपरूपार्थद्वयभानं भवतीति तत्रावश्यमुभयत्रापि शक्तिरेव वक्तव्येति लक्षणसमन्वयः ॥ ५८ ॥ एवं शक्तिशक्यादिविचारं सप्रपञ्चं निरुच्याथोद्देशप्राप्तं लक्षणादिविचारं विधास्यन्नादौ तलक्षणं संक्षिपति — अथेति । अथ निरुक्तशक्त्यादिविवेचनानन्तरमित्यर्थः । आरोपेण अतस्मिंस्तद्धी लक्षणेनाभ्यासेन बाधकाली नेच्छा जन्यज्ञानात्मकेनाहार्यारोपेण वेत्यर्थः । शाब्दी शब्दसंबन्धिनी नतु वस्तुतः । कुतः गङ्गायां घोष इति गङ्गापदप्रत्यायितः प्रवाहस्तीरं लक्ष्यतीति हेतोरर्थधर्म एव लक्षणा नतु शब्दधर्मः परंतु शब्दान्वयव्यतिरेकगम्यत्वातत्राप्यत एवेति । अतएवोक्तं काव्यप्रकाशेऽपि - ' मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्यार्थो लक्ष्यते यत्सा लक्षणारोपितक्रिया' इति । एतादृशी तात्पर्यानु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy