SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे मित्रमस्तीत्यत्र सुहृद्यत्या मित्रः प्रभाकरः। इतः सदैन्यः प्राप्तश्रीरिति चेष्टावशात्स्वयम् ॥ ५४॥ यत्र द्वितीयाद्यर्थस्याप्यस्ति प्रकरणं स्फुटम् । तत्राभिधैव तत्रापि यथा पञ्चनलीरणे ॥५५॥ निजदर्शनमात्रेण निर्मूलितमलावले। निराशः शोभते नित्यं तीर्थराजस्य सेवनात् ॥५६॥ दाहरणमिदमित्यर्थः ॥ ५३ ॥ मित्रमिति । व्यक्तिः मुखाद्याकारः । इत इति । अयं देवदत्तः सदैन्योऽपि इत इति हृदयेऽङ्गुलिं निधाय प्राप्तश्रीर्जात इति कश्चित्प्रभुर्वदति । तत्र हृदयेऽङ्गुलिनिधानरूपचेष्टया देशाद्यनेकवाचिनोऽपीतः पदस्यात्र खयं वक्तवार्थ इत्यर्थः । काव्ये खराभावात् ताननुदाहृत्यैव काव्यप्रकाशे आदिपदोक्ता चेष्टवोक्तेति ॥ ५४ ॥ नन्वस्त्वेवं संयोगादिवशादनेकार्थकशब्दस्थले शक्तिग्रहनियमस्तथापि यत्रार्थद्वयमपि प्रकरणादिप्राप्तं भवति तत्र कथं व्यवस्थेत्याशङ्कय तत्रोभयत्रापि सकृदुच्चारितशब्दस्यैव शक्तिग्रहादेवेति समाधत्ते- यत्रेति । आदिपदात्तृतीयार्थादेः संग्रहः । स्फुटमित्यनेन कल्प्यमानतया गूढस्य व्यावृत्तिः । प्रकरणत्वं तूपक्रान्तार्हत्वमेव । तेन न ग्रन्थविशेषेऽतिव्याप्तिः । तत्राभिधैवेति । प्रथमस्तत्रशब्द उदाहरणपरः । तत्रोदाहरण इत्यर्थः । द्वितीयस्तु द्वितीयाद्यर्थपरः । तत्रापि द्वितीयाद्यर्थेऽप्यभिधैव शक्तिवृत्तिरेव विज्ञेयेति योजना । अभिनवैवेयं कल्पनेति शङ्कोपशान्तयेऽत्र प्राचामुदाहरणमाह सप्रतिज्ञम् यथेति । नलरूपधराणां नलसहितानामिन्द्राग्नियमवरुणानां पञ्चनलानां समाहारः पञ्चनली तस्याः ईरणं श्रीहर्षकृतनैषधीयचरितत्रयोदशसर्गे–'ब्रूमः किमस्य वरवर्णिनि वीरसेनोद्भूतिं द्विषद्बलविजित्वरपौरुषस्य । सेनाचरीभवदिभाननदानवारिवासेन यस्य जनिता सुरभीरणश्रीः' इत्यादिश्लोकेष्विन्द्राद्यन्यतमस्य नलस्य च वर्णनं तस्मिन्नित्यर्थः । अत्रोभयोरपि स्पष्टमेव प्रकरणमित्युभयत्रापि गत्यन्तराभावाच्छक्तिरेव परं वीदृशस्थले संस्कारोबोधक्रमादेव शाब्दबोधक्रम इत्यवधेयम् ॥ ५५ ॥ एवं प्रकृतानुकूलं प्राचामुदाहरणमभिधायाधुनादिपदद्योतिततृतीयाद्यर्थघटितं तादृग्वर्णनस्थलं खयमुदाहरति-निजेति । निराशः निर्गता आशा विषयतृष्णा यस्य स तथा । योगीन्द्र इत्यर्थः। स तावन्नित्यमखण्डं तीर्थराजस्य सेवनात् शोभत इत्यन्वयः । 'तीर्थ शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इति विश्वोक्तेरत्र चरमभिनानां शास्त्राद्यखिलार्थानामपि निराशपदद्योतितस्य प्रकरणस्य सत्त्वात्तत्रापि शक्तिरेव । तथाच तीर्थराजस्य शास्त्रशिरोमणेर्वेदान्तस्य पक्षे यज्ञश्रेष्ठस्य 'यज्ञानां जपयज्ञोऽस्मि' इति श्रीमद्भगवद्वचनात्प्रणवादिजपस्य । पक्षे क्षेत्रक्षितिपतेः प्रयागस्याविमुक्तस्य वा, पक्षे उपायशब्दितसाधनाधिपतेः 'तपखिभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः । कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन' इतिच तद्वचनादेवाद्वैतब्रह्मणि चित्तनिरोधात्मकस्य योगस्य । पक्षे उपाध्यायशब्दवाच्य
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy