SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २ ] सरसामोदव्याख्यासहितम् । स्थाणुं भवच्छिदे पश्यत्यत्र शंभुः प्रयोजनात् । सैन्धवं स्वानयेत्यत्र क्षारः प्रकरणाद्भवेत् ॥ ५० ॥ माधवस्तुष्यतीत्यत्र लिङ्गानारायणः खलु । देवस्त्रिपुरहेत्यत्र शिवोऽन्यपदसन्निधेः॥५१॥ मधुना कोकिलो मत्तोऽत्र सामर्थ्याद्वसन्तकः। औचित्यात्सा मुखं यातीत्यत्र सांमुख्यमुच्यते ॥ ५२॥ हंसः सरसि भातीति देशयोगान्मरालकः। चित्रभानुः स्फुरत्यत्र दिवाकॊ निशि पावकः ॥ ५३ ॥ स्थाणुः कीले स्थिरे हरे' इति विश्वोक्तेः स्थाणुशब्दो नानार्थः। भो देवदत्त, त्वं भवच्छिदे संसारध्वंसार्थ स्थाणुं पश्य विलोकयेत्यायुदाहरणे स्थाणुशब्देनात्र संसारध्वंसरूपप्रयोजनाच्छंभुरेव ज्ञेय इत्यर्थः । सैन्धवमिति । खानय । मुष्ट यथाविधि आनयेत्यर्थः । इत्यत्रोक्तोदाहरणे सैन्धवशब्दो हि योगेन सिन्धोः सकाशादुत्वने लवणे, तथा सिन्धुदेशसमुद्भतेऽश्वेऽपि वर्तत इति नानार्थकस्ततः क्षारशब्दितं लवणमेव भोजनस्य प्रकरणाग्राह्यमित्यर्थः । भोजनप्रकरणसूचक लत्र खानयेति पदेन यथाविध्यानयनविधानमेव । 'लवणं व्यञ्जनं चैव घृतं तैलं तथैव च । लेह्यं पेयं च विविधं हस्तदत्तं न भक्षयेत्' इति पैठीनसिवचनेन भट्टोजिदीक्षतैः खाह्निके लवणपरिवेषणं तु हस्तेतरेणैव कार्यमिति तद्विधानसूचनात् ॥ ५० ॥ माधव इति । 'माधवस्तु वसन्ते स्याद्वैशाखे गरुडध्वजे' इति विश्वान्माधवशव्दोऽनेकार्थः । तत्र तुष्टितलिङ्गस्य जडे वसन्तादावसंभवात्ततो नारायण एव माधवपदवाच्य इत्यर्थः । देव इति । त्रिपुरहा त्रिपुरं त्रिपुरासुर हन्ति नाशयतीति तथा। इत्यत्रोदाहरणे अन्यपदस्य त्रिपुरहेतिपदस्य संनिधेः 'देवः सुरे धने वक्षे' इति विश्वादनेकार्थेनापि देवपदेन शिव एव ग्राह्य इत्यर्थः । तत्कथितत्रिपुरहननस्यान्यत्रासंभवादिति ॥ ५१ ॥ मधुनेति । 'मधु क्षौद्रे जले क्षीरे मद्ये पुष्परसे मधुः । दैत्ये चैत्रे वसन्ते च जीवाशोके मधुद्रुमे' इति विश्वा मधुशब्दो नानार्थः । अतोऽत्र मधुपदेन कोकिलस्य मादकत्वसामर्थ्य वसन्त एव वर्तत इति स एव ग्राह्यः । यद्वा कोकिलाधिकरणकमदरूपकार्यतानिरूपितकारणताशालिवं वसन्त एवेति वा तस्यैव ग्रहः । औचित्यादिति । सा नायिका । सुखशब्दस्य वदनसांमुख्योभयवाचकत्वेऽपि वदने तावदागमनकर्मस्वस्थानुचितत्वात्सांमुख्ये तु तत्संभवादनौचित्यात्तदेवोच्यत इत्यर्थः ॥ ५२ ॥ हंस इति । 'रविश्वेतच्छदौ हंसौ' इत्यमराद्धंसपदं नानार्थम् । मरालक: श्वेतच्छदः प्रसिद्ध एव पक्षिविशेषः । चित्रभानुरिति । 'घुमणिस्तरणिमित्रश्चित्रभानुर्विरोचनः' इत्यमरात्सूर्योऽपि चित्रभानुपदवाच्यस्तथा चित्रभानुर्विभावसुरित्यग्निरपि तत एव तत्पदवाच्यस्तथापि दिवा चेदर्कः निशि चेत्पावक इति कालो
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy