________________
[पूर्वार्धे
साहित्यसारम् । नानार्थवाचके शब्दे शक्तिग्रहनियामकाः । संयोगादय एवात्र ज्ञेयाः प्राचीनसंमताः॥४७॥ हरिः सशङ्खचक्रोऽत्र संयोगाद्विष्णुरुच्यते । अशङ्खचको हरिरित्यत्रेन्द्रः स्याद्वियोगतः ॥४८॥ श्रीरामलक्ष्मणावत्र सीतेशः साहचर्यतः ।
हरि गं हिनस्त्यत्र विरोधात्सिहदन्तिनौ ॥ ४९ ॥ न कर्तव्यमित्याशयेन तात्पर्याख्यं वाक्याथ व्यञ्जकत्वेनोदाहरति-वाच्यमित्यादिशेषेण । अतः परं निरुक्तरीत्या तस्याः प्राणान्तावस्थाकथनानन्तरं किं वाच्यं । न कोऽपि वक्तव्यांशोऽवशिष्ट इत्यर्थः । 'उपक्रमादिभिर्लिङ्गैस्तात्पर्य वक्तराशयः' इति तात्पर्यस्य प्रागुक्तलक्षणत्वेन प्रकृते शेते रक्तोत्पले चन्द्र इत्याग्रुपक्रमादिलिङ्गैनिरुक्तनायिकाविरहातिशयकथनात्मकेनानेन तात्पर्यसंज्ञकवाक्यार्थेन त्वयेतः परं शीघ्रमेव तां प्रत्युपागन्तव्यमिति व्यक्तं भवति । एवं चात्र पूर्वार्धन चन्द्रस्य रक्तोत्पले शयनरूपसंबन्धमात्रकथनात्प्रथमपादे संसर्गसंज्ञकस्तथा द्वितीयपादे च झषधाराधरयोर्विशेष्यविशेषणभावकथनाच विशिष्टसंज्ञको वाक्यार्थ इत्युभयविधावखण्डौ तावुक्तौ । उत्तरार्धे तु तृतीयचरणेन बहुपदीयः खण्डवाक्यार्थस्तथा भो इत्येकपदीयोऽप्यसाविति खण्डवाक्यार्थद्वयं शेषेण तात्पर्याख्योऽप्यसावुक्त इत्येवं पञ्चविधोऽसौ बोध्यः । अत्रापि रसादिकं प्राग्वदेवोह्यम् । अलंकारस्तु रूपकातिशयोक्तिः । तदुक्तम्-'रूपकातिशयोक्तिः स्यानिगीर्याध्यवसानतः । पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः' इति ॥ ४६ ॥ ननु भवत्वेवं शक्त्यादिव्यवस्था शक्यपदार्थादिविषयिणी सोदाहरणा, तथापि वनमित्यादि प्रागुक्तोदाहरणश्रवणेन स्मृतस्य नानार्थस्य शब्दस्य कथं शक्तिग्रहनियम इत्यतः प्राचीनोक्तानि संयोगादीनि चतुर्दशैव तन्नियामकानि विज्ञेयानीत्याहनानार्थवाचक इति । तेच यथा-संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः। सामर्थ्यमौचिती देशः कालो व्यक्तिः खरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः' इति । प्राचीनेति । प्राचीनानां मंमटभट्टादीनां संमताः । प्रमाणीभूता इत्यर्थः ॥ ४७ ॥ तेषां क्रमेणोद्देशपूर्वकमुदाहरणान्याह-हरिरित्यादिसप्तभिः । सशङ्खचक्रः शङ्खश्च चक्र च शङ्खचक्रम् । 'द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम्' इत्यनुशासनादत्र सेनाङ्गत्वादेकवद्भावः । तेन सहितस्तथा । अत्र शङ्खचक्रेण सह हरेः संयोगात् ‘यमानिले. न्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमराद्धरिशब्दस्यानेकार्थत्वेऽपि विष्णुरेवोच्यत इत्यर्थः । असुरसमरे विष्णुतुल्यत्वेनेन्द्रस्यैव सत्वात्प्राप्तिपूर्वको हि निषेध इति स्याच्छङ्खचक्रवियोगस्य तत्रैव संभवादशोत्युदाहरण इन्द्र एव ग्राह्य इत्याह-अशङ्केति ॥ ४८ ॥ श्रीरामेति । रामो जामदग्न्योऽपीति साहचर्याग्नियमः॥ ४९ ॥ स्थाणुमिति ।