SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । शेते रक्तोत्पले चन्द्रस्तत्र धाराधरौ झषौ । सिञ्चतो हेमवल्लीं तां भो वाच्यं किमतः परम् ॥ ४६॥ ततः पुष्पबाण इति कृष्ण इति च योगरूढपदार्थद्वयोदाहरणे इति क्रमाददाहरणाष्टक बोध्यम् । अत्र राधाख्यालम्बनविभावेन वसन्तााद्दीपनविभावेन खेदात्मकानुभावेन नायिकागतगर्वाभिधव्यभिचारिभावेन च परिपोषितो निरुक्तना. यिकाविषयको भगवदाश्रितरत्याख्यस्थायिभावात्माविप्रलम्भः शृङ्गारः समस्त. पद्येन वनितः । तदिदमुत्तमोत्तमं काव्यम् । काव्यलिङ्गपरिकराङ्कुरावलंकारौ । एवं धर्माद्यप्यूह्यम् ॥ ४५ ॥ एवं शक्यपदार्थाष्टकोदाहरणान्यभिधायाधुना क्रमप्राप्तानि पूर्वोपन्यस्तवाक्यार्थपञ्चकोदाहरणान्यपि कथयति-शेत इति । इदं तु श्रीकृष्णं प्रति विरहिण्या राधिकया प्रेषितसख्या वचनम् । भोभगवन् , रक्तो. त्पले कोकनदसदृशे तत्करे चन्द्रः सुधादीधितिसदृशं तन्मुखं शेते । शयनवनि. चेष्टं तिष्टतीत्यर्थः । अनेन संसर्गाख्याखण्डवाक्यार्थेन निरुक्तनायिकायां चिन्ताति. शयो व्यज्यते । सचिन्तत्वावस्थायामेव तथावस्थानस्य प्रायेण लोके प्रसिद्ध त्वात् । न केवलं सचिन्तनावस्थितिमात्रं किंतु निरतिशयशोकोऽपीत्याहतत्रेत्यादिपादद्वयेन । तत्र निरुक्तचन्द्रपदलक्षिते तद्वदने धाराधरौ धारायाः जलधारायाः धरौ धारणकर्तारौ जलधरावित्यर्थः । 'धाराधरो जलधरः' इत्यमरः । पक्षे अश्रुजलधाराधरावित्यर्थः । एतादृशौ झषौ मत्स्यौ तत्सदृशे लोचने वर्तते इत्यर्थः । अनेन तु विशिष्टाख्याखण्डवाक्यार्थेन तत्रैव शोकातिशयः सूच्यते । धाराधरत्वरूपविशेषणेन तन्नयनयोः सतताश्रुप्रवाहशालित्वोक्तेः । किंच तस्याः परमशुष्कावयवत्वमपि संपन्नं ततो ग्लानिरपि भूयसीत्याह-सिंचत इति । तां हेमवल्ली सिञ्चत इत्यत्र वाक्ये अर्थसमाप्तेरभावात् तां कां को वा सिञ्चत इत्याकासासवाच्च असमाप्तार्थक खण्डवाक्यमिति प्रागुक्तलक्षणं खण्डवाक्यत्वमेव तां प्रकृतां हेमवली हेनः सुवर्णस्य वली लता तां तत्समानशरीरयष्टिकां राधिकामित्यर्थः । सिंचतः धाराधरौ झषावित्यनुकर्षणीयम् । एवंच निरन्तराश्रधाराशालिनी तन्नयने विरहानलम्लानानि ततो निःसत्वतया निलीनानि च तदङ्गानि तदुज्जीवनार्थमिव निषिञ्चत इत्यर्थः । अनेनोक्तरीत्या बहपदीयखण्डवाक्यार्थन तस्यां मूञ्छितत्वं विरहेणातिकाय च ध्वनितम् । क्वचिदेकपदेऽप्येतदिति खण्डवाक्यत्वस्य कचिदेकपदेऽपि सत्वमुक्तमित्यत्र तदर्थस्यापि व्यञ्जकत्वमुदाहरति-भो इति । इदं भो इति कस्य संबोधनमित्याकाङ्क्षासत्वे. नार्थासमाप्तेर्लक्षणसमन्वयः । भो भगवन्नित्यर्थः । अनेनैकपदीयखण्डवाक्यार्थन संबोध्यस्यात्र नामाग्रहणादेतादृश्याः परमसुन्दर्याः सकलगुणगणरमणीयायास्त्वदेकपरायास्त्वद्वियोगेन जीवितमात्रशेषाया नायिकायास्त्वमीदृशीमप्यवस्था विज्ञा। याद्यापि यतस्तत्समीपगमनं न संपादयस्यतस्त्वदीयं नामापि न ग्राह्यमिति भगवद्विषयः सख्युपालम्भो द्योतितः । अतएवेतः परं त्वया साकं संभाषणमपि
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy