________________
साहित्यसारम् ।
[.पूर्वार्धे ऽप्येतावत्कालं मया प्रार्थनासहस्र क्रियमाणेऽपि त्वया मानो नैव त्यक्तस्तदाद्य कोऽन्यस्त्वद्वशीकरणेऽस्त्युपायस्तस्मादुपेक्षैव वरमिति भावः । ननु तर्हि कृष्णस्य कथं कामव्यथानिराकृतिरिति चेत्तत्राह-नोदक इत्युत्तरार्धेन ।नोदकः नोदयतीति तथा । कृष्णाभिसरणादौ प्रेरक इत्यर्थः । एतादृशः पुष्पबाणः पुष्पाण्येव कुसुमान्येव बाणाः शराः यस्य स तथा कुसुमशरः स्मर इत्यर्थः। उक्तंहि-'अरविन्दमशोकं च चूतं च वनमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः' इति । एवमभ्यन्तर एव रत्यादौ प्रेरकः कामश्चेत्कृष्णः किमिति कस्माद्धतोः खिद्यति । विरहव्यथां प्राप्नोतीत्यर्थः । निरुक्ताखिलवनविकासेन कामबाणीभूतानामनन्तकुसुमानामौज्ज्वल्यतमत्वात्तैरेवान्तरिमां सहस्त्रधाभिविध्य स तावदधुनैव श्रीकृष्णं प्रत्यभिसारयिष्यतीत्यनुचित एव तस्य खेदः प्रत्युतोक्तरीत्याह । क्षणमात्रेणैव तस्य निरतिशयानन्दो भविष्यतीति भावः । अत्र वनमिति वनत्वरूपजात्या वनत्वावच्छिन्नसकलवनानां संग्रहादुद्दीपनविभावसामग्रीरूपपुष्पाख्यस्मरशराधारी भूतवनात्मकनिषङ्गपोष्कल्यं, यद्वानेकानां जडानामपि वनानां जडस्यापि वसन्तकालस्य प्रभावेन विकासोऽभूत्परं त्वेकस्याः परममृदुलचित्ताया अपि तव मदुपलक्षिताभिश्चतुरतराभिरनेकसखीभिः प्रार्थनसहस्रे क्रियमाणेऽप्येतादृशवसन्ताद्युद्दीपकशतसत्वेऽपि चाद्यापि प्रसन्नताख्यविकासलेशोऽपि नैव भवतीति विलक्षणं सौन्दर्यादिगर्वितवं लयीति दूत्यातिशयोऽवा व्यज्यते । विचित्रमिति निरुपम्येन चित्ररूपाख्यगुणेन निरुक्तकामबाणानां विविधरूपशालित्वेनावश्यप्रकृतनायिकावशीकरणनिपुणवं तथा उत्फुल्लमिति विकासरूपक्रिययापि तेषामेव शाणनिघर्षणजनितौज्ज्वल्यशालिप्रसिद्धसायकवनिशिततमत्वमपि द्योत्यते । राधे इति द्रव्येण त्रैलोक्यपूज्यस्यापि भगवतः प्रीतिपात्रलात्तस्यां महामहिमत्वं तथा त्वद्वदनमिति पदार्थयोगात्मकयौगिकपदार्थेन वत्संबन्धिमुखमेव न प्रसन्नं वं तु निजाभ्यन्तरे सुप्रनैवासीति श्रीकृष्णविषयकगूढप्रेमवैपुल्यशालित्वमपि ध्वनितम् । एवं नोदकमिति प्रकृतिप्रत्यययोगात्मकयौगिकपदार्थेन कामे प्रेरकत्वोक्तेरनायासेनेष्टसिद्धिः श्रीकृष्णस्य भवित्रीति तथा पुष्पबाण इति पदार्थयोगात्मकयोगरूढपदार्थेन मदने कुसुमैकायुधत्वोक्तेः प्राक्सूचितवसन्तोल्लसितपुपाख्यतदायुधसमृद्धेस्तस्य प्रबलतरत्वं च सूचितम् । कृष्ण इति प्रकृतिप्रत्यययोगात्मकयोगरूढपदार्थेन 'कृषिभूवाचकः शब्दो णश्च निवृतिवाचकः । तयो. क्यं परं ब्रह्म कृष्ण इत्यभिधीयते' इति श्रुतेरद्वैतानन्दरूपे तस्मिन्वस्तुतः कामव्यथाजनितखेदाद्यभावेऽपि भक्तजनदृष्टया लीलामनुष्यनाट्येन तथातथा व्यवहरतीवेति विचित्रं भक्तिवैभवमिति । यद्वा ब्रह्मत्वेन कामस्याप्ययमन्तनियन्तैव प्रकृतनायिकायाश्चेति द्रुतमेवेमां वशीकरिष्यत्येवेति युक्त एवास्य
खेदानौचित्यवाद इति व्यक्तम् । अत्र राधे इत्यन्तपदचतुष्टयेन जात्यादिरूढाख्यपदार्थचतुष्टयोदाहरणानि ततस्त्वद्वदनं नोदक इति च यौगिकपदार्थद्वयोदाहरणे