SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । संसर्गादिश्च वाक्यार्थोऽप्येवं पञ्चविधो भवेत् । अखंडौ च सखण्डौ च तात्पर्याख्योऽपि चेतसः ॥४३ स कोऽपि विषयो नास्ति यत्र व्यङ्गयं न भासते । इति ध्वनिकदुक्तेस्ते सर्वेऽपि व्यञ्जका यथा ॥४४॥ वनं विचित्रमुत्फुल्लं राधे त्वद्वदनं तु न । नोदकः पुष्पबाणश्चेत्कृष्णः किमिति खिद्यति ॥ ४५ ॥ नहि वाक्यार्थः कतिविध इतिचेत्तत्संख्यामाह-संसर्गादिरिति । तत्र द्विभागमाह-अखण्डौ चेति । संसर्गश्च विशिष्टश्चेत्येतौ कृष्णोऽस्ति छत्री चैत्रोऽ टतीत्युदाहृतावखण्डौ वाक्यार्थावित्यर्थः । सखण्डौ चेति । बहुपदीयैकपदीयो यो गोलमाहरेति दृश्यत्वादिति चोदाहृतौ तथेत्यर्थः । इत्येवंसंख्यया सः प्रति. ज्ञातपञ्चविध इत्यर्थः ॥ ४३ ॥ ननु भवत्वेवं पदार्थाष्टकं वाक्यार्थपञ्चकं च किं तावतेतिचेत् तत्रालंकारिकसंमतिपूर्वकं तद्गणनायाः प्रयोजनमाह–स कोऽपीति । विषयो वागिन्द्रियादेर्गोचरः पदादिशब्दादिवस्तुविशेषः । चेष्टादीनामपि व्यञ्जकत्वस्याग्रे वक्ष्यमाणत्वायुक्तमेव ध्वनिकारप्रतिज्ञानमिति तात्पर्यम् । व्यायं व्यज्यत इति व्यगचं वक्ष्यमाणव्यञ्जनाख्यवृत्तिविषयं वस्त्वित्यर्थः।ध्वनीति। प्रथमं ध्वनिसंज्ञं स्यात्' इति पूर्वप्रकरणोक्तध्वनिनामकोत्तमोत्तमकाव्यपञ्चात्मकं ग्रन्थविशेषं करोतीति तथा तस्योक्तिर्वचनं तस्या इत्यर्थः। प्रकृतमाह-ते सर्वेऽपीति । ते प्रागुक्ताः सर्वेऽपि जात्यादिपदार्थाः संसर्गादिवाक्यार्थाश्चेत्यर्थः । कथं व्यन्जकलं तेषामित्याशङ्कायां तदुदाहरणं प्रतिजानीते-यथेति ॥ ४४ ॥ तत्र क्रमेण जात्यादिपदार्थाष्टकस्य व्यङ्गयोदाहरणान्याह-वनमिति । इदं हि मानवती राधिका प्रति श्रीकृष्णप्रेषितदूतीवचनम् । अयि राधे, इदं वृन्दावन. नामक वनं अरण्यं नतूपवनं तस्य वसन्तं विनापि चतुरतरमालाकारप्रयत्नेन कदाचिद्विविधपुष्पविकासशालित्वसंभवादित्यर्थः । अत्र वनपदेन गोलादिवढूनवरूपा जातिः शक्या व्यक्तिलाभस्त्वाक्षेपादित्युपपादितमेवाधस्तात्सा जातियुक्तेन्यादिना । तेन यावद्वानानां लाभः । विचित्रं विशेषेण नतु सामान्येन । तादशचित्रत्वस्यान्यकालेऽपि संभवादित्यर्थः । चित्रं विविधमालतीतमालचम्पकबन्धूकपाटलवकुलादिद्रुमकुसुमविकासेनानेकवर्णमित्यर्थः । एतादृशत्वे हेतुः-उत्फलमिति । उत्सम्यक्परमेश्वरविहारार्थं भृत्यत्वेन परमानुकूलबनदेवतावसन्ता, दिनिरतिशयप्रयत्नवशादनुपमरमणीयत्वेनेत्यर्थः । नतु साधारण्येन । तथावस्य यत्किंचिदृक्षादिनिष्टत्वेन सार्वदिकत्वात् । फुलं विकसितमस्तीत्यर्थः । ननु किमेतावता प्रकृत इयत आह—तद्वनमिति । तुशब्दः शङ्काव्यावृत्त्यर्थः । त्वद्दनं पुनः निरुक्तवनविकासे सत्यपि नैव संफुलं भवतीति योजना । लद्दनं तव वदनं वन्मुखमित्यर्थः । नैव फुलं निरुक्तवनविकासस्योद्दीपकस्य सत्वेऽपि मानापहानेन नैव मुदितमित्यर्थः । यदा वसन्तादिसकलकामोद्दीपकसामग्रीसत्वे.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy