________________
[पूर्वार्ध
साहित्यसारम् । सुपर्वादिपदानां तु देवादौ कोशतोऽस्ति सः। लक्ष्मीः श्रीपदवाच्येति शेयोऽसावाप्तवाक्यतः॥३९॥ गामानयेति वाक्येन व्यवहाराद्वादिषु । यूपं तक्षत्यत्र काष्ठविशेषे वाक्यशेषतः॥४०॥ सहस्रपत्रं कमलमित्यादौ विवृतेरपि । रौत्याने पिक इत्यादौ प्रसिद्धपदसंनिधेः॥४१॥ इति साधनतः शक्तिमहाजात्यादिरष्टधा। सिद्धः शक्यपदार्थोऽत्र रूढादित्रयभेदतः॥४२॥
'सास्य देवता' इति।गवय इति स्पष्टोऽर्थः॥३८॥सुपर्वादीति। 'सुपर्वाणः सुमनसस्त्रिदिवेशा दिवौकसः' इत्यमराख्यकोशसकाशादित्यर्थः । सः सुपर्वादिपदानां शक्तिग्रह इत्यर्थः । लक्ष्मीरिति । 'श्रीर्वेषरचना शोभा भारती सरलद्रुमे । लक्ष्म्यां त्रिवर्गसंपत्तौ वेषोपकरणे मतौ' इति विश्वोक्तेः । श्रीहरिं परमानन्दमुपदेष्टारमीश्वरम्' इत्यपरोक्षानुभूतिश्लोके श्रीशब्दस्य कोऽर्थः प्रकृत इति शिष्यजिज्ञासोत्तरं श्रीपदवाच्यात्र लक्ष्मीरेवेत्याचार्यवचने असौ शक्तिग्रह आप्तवाक्यतो ज्ञेय इति ॥ ३९ ॥ गामिति । वृद्धेन गामानयेत्युक्ते मध्यमवृद्धः सास्नादिमदाकृतिविशेषमानयतीति तद्वाक्येन योयं व्यवहारस्तस्माद्युत्पित्सोर्बालस्य गवादिपदानां गवादिषु शक्तिग्रहो भवतीति भावः । यूपमिति । 'यूपं तक्षत्यष्टास्रीकरोति' इति श्रुतौ तक्षतीत्यादिवाक्यशेषाद्युपपदस्य तक्षणादिसंस्कारविशिष्टकाष्ठविशेषे शक्तिग्रह इति ॥ ४० ॥ सहस्रपत्रमिति । कमलपदार्थस्य सहस्रपत्रमित्यनेन यत्सहस्रसंख्याकदलविशिष्टं तत्कमलमिति विवरणमस्तीति तत एवात्र शक्तिग्रह इत्याशयः । रौतीति । अत्र आम्रपदस्य प्रसिद्धस्य संनिधेः पिकपदस्य कोकिले शक्तिग्रहः । नतु भ्रमरेपि । तस्य तत्र मकरन्दादिलोभेनोक्तशब्दकर्तृत्वसंभवेऽपि मालत्याद्यासक्तत्वस्यापि संभवेन तदेकोपजीवित्वाभावात्तस्य तु तन्मात्रो. पजीवित्वाचेति ॥४१॥ एवं सोदाहरणानि शक्तिग्रहसाधनान्यभिधाय तत्फलीभूतत्वेन सिद्धं वाक्यपदार्थ प्रागुक्तं सर्व पिण्डीकृत्य तमष्टविधत्वेन परिगणयन्नुपसंहरति-इतीति । इति पूर्वोक्तव्याकरणादिप्रकारेण साधनतः । साधनरित्यर्थः । जात्यादिः प्रागुक्तजातिगुणक्रियाद्रव्यरूपः । शक्येति । शक्यत इति शक्यः शक्तिवृत्त्या प्रतिबोध्यः स चासौ पदार्थश्चेति कर्मधारयः । अभि. धाविषयीभूतो गवादिपदार्थ इतियावत् । ननु जात्यादिभेदाचातुर्विध्यमेव भाति तत्कथमष्टविधवप्रतिज्ञेयत आह-अत्रेति । अस्मिन्प्रथे । तत्र हेतु:-रूढेति । रूढयौगिकयोगरूढभेदादित्यर्थः । अयंभावः । रूढः पदार्थो जात्यादिौः शुक्ल इत्यादिनोक्तश्चतुर्विधः । तथा यौगिक पदार्थद्वयं योगः पदार्थयोरेक इत्यादिना योगरूढपदार्थद्वयं चोक्तमिति युक्तमेव तथा निगमनप्रतिज्ञानमिति ॥ ४२ ॥