________________
रावतरत्नम् २] सरसामोदव्याख्यासहितम् ।
याला युवानो वृद्धाश्च कपोता युगपत्खले । कणावचपलोभेज निपतन्ति यथा क्षणात् ॥ ३४ ॥ पदार्थास्तद्धदेवतेऽन्वयं यान्ति परस्परम् । संसर्गसंशे वाक्याथै कृष्णोऽस्तीत्यादिवाक्यजे ॥३२॥ छत्री चैत्रोऽटतीत्यादौ विशिष्टे तु यथा पुरम् । सैनिकक्रमतो राजा प्रविशेत्तद्वदन्वयः ॥ ३६॥ शक्तिग्रहो व्याकरणाद्यष्टभिः साधनैर्भवेत् । प्रत्येकमेव पृथ्व्याद्यैर्ध्यातै रूपैरिवेशितुः ॥ ३७॥ तत्र व्याकरणादैन्द्रमित्यादौ तद्धविष्यसौ। गवयो गौरिवेत्यादौ गवये तूपमानतः ॥ ३८ ॥
शक्तिज्ञान तलक्षणो यः सहकारः सहायस्तेनेत्यर्थः ॥ ३३ ॥ तत्र स्मृतानां पदार्थानामन्वयो द्विविधः। ऐककालिकः कामिकश्च । संसर्गाव्ये वाक्यार्थे प्रथमः । वैशिष्टाव्ये तु चरम इति । तत्राद्यं खलेकपोतन्यायघटितं सोदाहरणमाहयाला इत्यादिद्वाभ्याम् । कपोताः पारावताः । 'पारावतः कलरवः' इत्यमरोक्तः। बले धान्यसंमर्दनभूमिविशेषे ॥ ३४ ॥ प्रकृते योजयति-पदार्था इति । । २ ॥ अन्त्यमपि राजपुरप्रवेशन्याय घटितं तद्वदेवाह-छत्रीति । वैलअप्वार्थस्तुशब्दः ॥ ३६ ॥ एवं शक्तिस्वरूपं, तत्प्रसङ्गात्पदस्वरूपं, तत्प्रसङ्गावाक्यादिस्वरूपं, तत्प्रसङ्गाद्विभक्तिसप्तकार्थस्वरूपं, तत्प्रसङ्गाद्वाक्यार्थस्वरूपं, तलासशाच्छाब्दबोधप्रक्रियां च संक्षिप्याधुना किं शक्तिग्रहस्य निरुक्तशाब्दबोधनकीभूतस्यैव साधनमित्याकाङ्क्षायां 'शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यव्यवआन्तश्च । वाक्यम्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः' इति प्राचां वचनानुसारेण तस्याष्टविश्वत्वं प्रति जानीते-शक्तिग्रह इति । किमेतैः समुचितैः। नेत्याह-प्रत्येकमिति । तत्र दृष्टान्तमाह----पृथ्व्याचैरिति । शक्तिग्रह इत्यनुकर्षणीयम् । यथा इशितुः पृथ्व्याथैः अष्टभिः रूपैः प्रत्येकमेव यातैः शक्तिग्रहो भवत्येवं व्याकरणाद्यष्टभिः साधनैः प्रत्येकमेव शक्तिग्रहो भवेदित्यष्टभिरित्यप्यनुकृष्य प्रत्येकमित्यपकृष्यापि योज्यम् । इशितुः शिवस्य व्याद्यैः । तदुक्तं श्रीमद्भगवत्पूज्यपादचरणारविन्दैः श्रीदक्षिणामूर्तिस्तवे-'भूरमास्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमानित्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम्' इति । एतेषां प्रत्येकं ध्यानादेवाणिमादिरूपायाः सिद्धेग्रहः समुच्चितध्याने तु सार्वात्म्योपासनाद्ब्रह्मप्राप्तिरेवेति युक्तमेव लापितं प्रत्येकमेव ध्यातैरिति । अत्र विस्त्ररस्तु तद्वार्तिके मानसोल्लाससंज्ञके द्रष्टव्यः॥ ३७॥ प्रतिज्ञातमुपनिबध्नाति सोदाहरणं क्रमेण-तत्रेत्यादिचतुर्भिः । ऐन्द्रमिति श्रौत पदम् । असौ शक्ति ग्रहः तद्धविषि । इन्द्रदैवत्ये हविर्द्रव्य इत्यर्थः । तथाच सूत्र