SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे यत्रान्विताभिधानं स्यान्न तु तत्र स भिद्यते । उपक्रमादिभिर्लिङ्गैस्तात्पर्य वक्तुराशयः ॥ २९ ॥ मुखमेवेन्दुरित्यादावालंकारिकदर्शने । शाब्दबोधश्चमत्कारी योग्यताविरहेऽपि यः॥ ३०॥ स तु तच्छास्त्रसंस्कारवतामेवोपजायते। नान्येषां प्रतिबद्धाग्नेर्दाह उत्तेजके यथा ॥ ३१॥ एवं चोत्तेजकाभावशालिनो बाधनिश्चितेः। अभावस्य च हेतुत्वं शाब्दबोधेऽत्र संमतम् ॥ ३२॥ पदक्षानैककरणात्पदार्थस्मृतिवर्मना। शक्तिधीसहकारेण शाब्दबोधः प्रजायते ॥ ३३॥ त्यर्थः ॥ २८ ॥ मतान्तरमाह-योति । अन्विताभिधानं अन्वितानां संब. द्धानां पदार्थानामेव पदैरभिधानं बोधनं तद्यत्र स्यात् भाट्टे मत इत्यनुषज्ज्यते। तुशब्दो वैलक्षण्यावद्योती । तत्र निरुक्तमते सः वाक्यार्थःन भिद्यते । पदार्थेभ्यो भिन्नो न भवतीत्यर्थः । तदुक्तं काव्यप्रकाशे-‘पदार्थानां समन्वये तात्पर्यार्थों विशेषवपुरपदार्थोऽपि वाक्यार्थः समुल्लसति'इत्यभिहितान्वयवादिनां मतम् । वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः' इति । अथ कथं तात्पर्य ज्ञेयमित्यत आह-उपक्रमेति । लिङ्गै?तकैः । तत्स्वरूपमाह-वक्तुरिति ॥ २९ ॥ ननु भवत्वेवं वाक्यलक्षणादिकं तथापि न योग्यतादिकमेव नियमेन वाक्यार्थज्ञानेऽपेक्षितं, वदनमेव चन्द्र इत्यादौ मुखे चन्द्रकार्यकारित्वाभावेन योग्यताराहित्येऽपि शाब्दबोधदर्शनादितिचेन्न । तत्रालंकारशास्त्रसंस्कारवतामेव शाब्दबोध. दर्शनात्तद्भिन्नानां तददर्शनाच्च । तस्माद्योग्यताभावस्य शाब्दबोधप्रतिबन्धकत्वेऽपि निरुक्तसंस्कारस्य तत्रोत्तेजकत्वादेव शाब्दबोध इत्याशयेनाह-मुखमेवेत्यादिद्वाभ्याम् । चमत्कारी चमत्कारवान् । आह्लादक इतियावत् ॥३०॥ सत्विति । तुशब्दः शङ्काव्यावृत्त्यर्थः । तत्र दृष्टान्तः प्रतिबद्धेति । प्रतिबद्धो मण्यादिना निरुद्धदाहशक्तिः सचासावग्निश्चतस्मात् । प्रतिबन्धविशिष्टाद्वढेरित्यर्थः।यथा उत्तेजके मन्त्रादिरूपे निरुक्तशक्तिप्रतिबन्धमोचके सत्येव दाहो जायते नान्यथा तद्वत्प्रकृतेऽपीति ॥ ३१ ॥ फलितमाह-एवंचेति । मुखमेवेन्दुरित्यादौ बाधनिश्चयेऽप्युक्तोत्तेजकसत्त्वेन शाब्दबोधदर्शनादुत्तेजकाभावविशिष्ट एव बाधनिश्चयाभावः शाब्दबोधे हेतुर्नतु केवल इति नियम्यत इति तात्पर्यम् । स्पष्टमन्यत् ॥ ३२ ॥ न केवलमेतावदेव शाब्दबोधे कारणं किंतु कारणान्तरमपीति तद्दशयंश्छाब्दबोधप्रक्रियां संक्षिपति-पदेति । पदानां रामादिपदानां ज्ञानमेव एकं मुख्यं करणमसाधारणं कारणं तस्मादित्यर्थः । पदार्थेति । पदार्थाः सीतारमणादयस्तेषां स्मृतिस्तद्वर्त्मना । तन्मार्गेणेत्यर्थः । शक्तीति । शक्तिधीः
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy