________________
सरसामोदव्याख्यासहितम् ।
raat aaa प्रकृतौ ब्रह्मणः प्रजाः । ती तु वह्निमान्धूमादित्यादौ पञ्चमी स्मृता ॥ २५ ॥ स्वस्वामिभावादौ शेषे कुद्योगे कर्तृकर्मणोः । पष्टी शंभोगणः शौरेः कृतिः कर्ता स्मृतेर्मुनिः ॥ २६ ॥ आधारे विषये व्याप्येऽन्यक्रियालक्षकक्रिये । सप्तमी कमले हंस आस्त इत्यादिके भवेत् ॥ २७ ॥ अपदार्थोऽपि वाक्यार्थस्तात्पर्याख्यः समुल्लसेत् । तत्र यस्मिन्मते भाट्टे प्रथितोऽभिहितान्वयः ॥ २८ ॥
ऐरावतरत्नम् २ ]
२९
!
नति चतुर्थी जाग्रदाद्यपेक्षया चतुर्थसंख्याका तुरीयावस्था ध्रुवं निश्चितं भवति इत्यर्थः ॥ २४ ॥ एवं पञ्चमीमप्याह – भेदावधाविति । अपादानपदवाच्ये विश्लेषस्यावधिभूते वस्तुनि पञ्चमी वनाद्यातीत्यादौ, तथा प्रकृतौ उपादाने ब्रह्मणः चतुर्मुखात्, यद्वा मायिनः परमात्मनः प्रजाः प्रजज्ञिरे इत्यादौ । तथा हेतौ वह्निमान्धूमादित्यादौ स्मृता । पाणिनिना कथितेत्यर्थः ॥ २५ ॥ अथ षष्ठ्यर्थं स्फुटयति – स्वेति । खस्वामित्वादिसंबन्धसामान्यरूप इत्यर्थः । शेष इति तान्त्रिकी नंज्ञा । कृद्योगे कृत्प्रत्यययोगे तु कर्तृकर्मणोः कर्तरि कर्मणि च षष्ठी स्यादित्यर्थः । तथाच सूत्रे ‘पटी शेषे”“कर्तृकर्मणोः कृति' इति च क्रमेणोदाहरति - शंभोरित्यादिना । पक्षे शेषे अनन्ताख्ये नागराजे पष्टी प्रागुक्तलक्षणा परतो व्युत्थानशालिनी षष्टीनाम्नी योगभूमिकास्तीत्यर्थः । तत्र हेतुगर्भे विशेषणे । कीदृशे । स्वस्वामिभावादौ स्वस्मिन्नद्वैतात्मन्येव स्वामिभावादिनियन्तृत्वपुरुषार्थत्वादिर्यस्य स तथा । तत्त्वज्ञ इत्यर्थः । पुनः कीदृशे । कर्तृकर्मणोः कृद्योगे कर्ता ज्ञानक्रियाश्रयः प्रमाता, कर्म ज्ञेयं दृश्यं तयोर्मध्ये कृद्योगे करोति स्वसंकल्पेन द्वैतं रचयतीति कृदज्ञात आत्मा तत्रैव ज्ञातत्वेन योगश्चित्तनिरोधो यस्य स तथा । योगीन्द्र इत्यर्थः । अत एवायं शंभोः शिवस्य गणः । वाहनत्वेन नन्दिकेश्वरवद्भूषणत्वेनापि सेवकविशेष इत्यर्थः । शौरेः विष्णोः कृतिः । पृथ्वीधारणरूपक्रियाविशेष एवेत्यर्थः । तथा मुनिः पतञ्जलि: नन् स्मृतेर्महाभाष्यादेः कर्ता । निर्मातेत्यर्थः ॥ २६ ॥ तद्वत्सप्तमीमप्याह -आधारे इति । अन्येति अन्यक्रियायाः लक्षिका क्रिया यस्य तस्मिन् तस्य क्रियया क्रियान्तरं लक्ष्यते तत्रेत्यर्थः । आदिपदान्मोक्षे इच्छास्ति, सर्वस्मिन्नानास्ति, गोषु दुह्यमानासु गतः, इति ग्राह्यम् ॥ २७ ॥ एवं विभक्त्यन्तं पदमिति नतेन प्रथमादिविभक्तिविशिष्टानां पदानामर्थानभिधायाधुना वाक्यार्थ कथय-मतभेदेन तद्वैविध्यमभिधत्ते - अपदार्थोऽपीत्यादिसार्धेन । अपदार्थोऽपि निरुक्तसप्तविभक्त्यन्तपदानामर्थाद्भिन्नोऽपि तात्पर्याख्यः तात्पर्यसंज्ञकः वाक्यार्थः तत्र
पूर्वमीमांसा वार्तिककारा भट्टास्तेषामिदं तस्मिन्मते समुहसेदाविर्भवेदित्यर्थः । तत्र वेत्यत आह- यस्मिन्निति । शेषेण यस्मिन् अभिहितान्वयः पदैरभिहितानां शक्त्यादिवृत्त्या प्रबोधितानां पदार्थानां अन्वयः संबन्धः प्रथितः प्रसिद्धोऽस्ती