SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ ५०२ साहित्यसारम् । प्रत्यनीकं तिरस्कारः प्रतिपक्षप्रियस्य चेत् । स्मरः स्मरारे त्वद्भक्तानेव नः पीडयत्यलम् ॥ २६० ॥ क्षणासाधुता चेत्समाधिरेतन्नामकोऽलंकारः स्यादित्यन्वयः । तदुक्तं रसगङ्गाधरे‘एककारणजन्यस्य कार्यस्याकस्मिक कारणान्तरसमवधानाहितं सौकर्य समाधिः ' इति । तमुदाहरति यदेति । कस्यचिदनेकजन्मसंचितसात्विकतमपुण्यपुञ्जसंचयपरिपाकरूपपरमेश्वरप्रसादशालिनोऽधिकारिण इति शेषः । तीव्रपदेन फलापर्यवसायिसामान्यजिज्ञासाव्युदासः । विना तु परोक्षजिज्ञासाव्यावृत्तिः । शिष्टं तु स्पष्टमेव । यथावा काव्यप्रकाशे – 'समाधिः सुकरं कार्य कारणान्तरयोगतः । साधनान्तरोपकृतेन कर्त्रा यदक्लेशेन कार्यमारब्धमाधीयते स समाधिर्ना ! उदाहरणम् – 'मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्टयेदमुदीर्ण घनगर्जितम्' इति । यथावा रसगङ्गाधरे — ' आयातैव निशा मनोमृगदृशामुनिमतन्वती मानो मे कथमेष संप्रति निरातङ्कं हृदि स्थास्यति । ऊहापोहमिमं सरोजनयना यावद्विधत्तेतरां तावत्कामनृपातपत्रसुषमं बिम्बं बभासे विधोः' इति ॥ २५९ ॥ एवमनायासेष्टसिद्धिप्रसङ्गतस्तदभावश्चेद्वलवतः प्रतिरोधात्तर्हि तन्मित्र एंव शस्त्रपातौचित्यसङ्गतं प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । 'जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यामधःकृतौ' इति कुवलयानन्दोक्तं प्रत्यनीकं लक्षयति- प्रत्यनी· कमिति । उक्तं हि रसगङ्गाधरेपि - 'प्रतिपक्षसंबन्धिनस्तिरस्कृतिः प्रत्यनीकम्' इति । तदुदाहरति — स्मर इति । एवं च त्वयैवायं समुपशमनीय इत्याशयः । यथावा काव्यप्रकाशे - ' त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्त्रां तापयत्यनुशयादिव कामः' इति । यथावा साहित्यदर्पणे'मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः' इति । सिंह इत्यर्थः । यथावा कुवलयानन्दे – 'मम रूपकीर्ति महरद्भुकि यस्तदनुप्रविष्टहृदयेयम्' इति । 'त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः' । एवं बलवति प्रतिपक्षे प्रतिकर्तुमशक्तस्य तदीयबाधनं प्रत्यनीकमिति स्थिते साक्षात्प्रतिपक्षे पराक्रमः प्रत्यनीकमिति कैमुतिकन्यायेन फलति । यथा - 'मधुव्रतौधः कुपितः स्वकीयमधुप्रपापद्मनिमीलनेन । बिम्बं समाकृष्य बलात्सुधांशोः कलङ्कमङ्के ध्रुवमातनोति' इति । अङ्के 'उत्सङ्गचिह्नयों• रङ्कः' इत्यमरादङ्कशब्दवाच्योत्सङ्गोपलक्षितशरीर इत्यर्थः । यथावा रसगङ्गाधरे'रेरे मनो मम मनोभवशासनस्य पादाम्बुजद्वयमनारतमानमन्तम् । किं मां निपातयसि संसृतिगर्तमध्ये नैतावता तव गमिष्यति पुत्रशोकः ' । 'जितमौक्तिकसंपदां रदानां सहवासेन परां मुदं ददानाम् । विरसादधरीकरोति नासामधुना साहसशालि मौक्तिकं ते' । पूर्वत्रोपजीव्यस्येह तूपजीवकस्य तिरस्काराद्वैरस्यार्थत्वशाब्दत्वाभ्यां च वैलक्षण्यमेवमन्यदप्यूह्यम् । अत्र विचार्यते । 'हेतुत्प्रेक्षयैव गतार्थत्वान्नेदमलंकारान्तरं भवितुमर्हति' इत्यादिना 'सम रूपकान्तिम्' इत्यादिन - - [ उत्तरार्धे
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy