SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ४०७ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । च्युता कल्पलता स्वस्तः किंवैषा विधुदम्बुदात् । इति संदिह्य निःश्वासैः कृष्णो निर्णीतवान्प्रियाम् ॥११९॥ अयं पुरोवती पदार्थः किं चन्द्रः अस्ति नवेत्यार्थिकम् । तत्र प्रथमकोटिबाधनिश्चायकं हेतुमाह-कुत इत्यादिना । 'कलङ्काको लाञ्छनं च' इत्यमरायद्ययं चन्द्रस्तर्हि अङ्की कलङ्की कुतो नास्तीत्यन्वयः । तस्य निशि पूर्णत्वे प्रतीयमानस्य कलङ्कित्वव्याप्यत्वभाननियमादिति भावः । वेत्यथवा यदि पुरोवर्तिनि कलङ्कित्वाभावात्पमं चेत्तर्हि निशि रात्रावप्यद्य उद्यद्विकसनलक्षणमुदयं प्रापदेव कुतो भवतीत्यध्याहृत्य योजना । नहि रात्रौ पद्मं विकसतीत्याशयः । तस्मात्पुरोवर्तिवस्तुनोऽस्य निश्यपि विकासशालित्वात्पद्मत्वाख्यद्वितीयकोटिरपि बाधितैवेति निर्णयाभावपर्यवसायिसंशयः पुनस्तदवस्थ एवेति भावः । इतीत्यायुत्तरार्धे तु स्पष्टमेव । एवं चेह निश्चयगर्भत्वाद्वितीयससंदेहभेदोदाहरणत्वम् । यथावा रसगङ्गाधरे–'तरणितनया किं स्यादेषा न तोयमयी हि सा मरकतमणिज्योत्स्ना वा स्यान सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकनकौतुकैर्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः' इति । अत्र मरकतमणे: कान्तिरित्येव प्रयोक्तव्यम् । 'चन्द्रिका कौमुदी ज्योत्स्ना' इत्यमराचन्द्रस्यैव कान्तौ ज्योत्स्नाशब्दस्य रूढत्वादिति ध्येयम् ॥ ११८ ॥ इदानीमुद्देशक्रमप्राप्तं निश्चयान्ताख्यं ससंदेहालंकारस्य तृतीयं भेदमुदाहरति-च्युतेति । एषा वृन्दावने चैत्रचित्राचन्द्रिकायां पुरोवर्तिनीत्यर्थः । स्वस्तः स्वर्गात्सकाशादित्यर्थः । च्युता पतिता । कल्पलता कल्पवयेव सौरभ्यभाखररूपवत्त्वादिना अस्ति किमित्यन्वयः । वेत्यथवा अम्बु. दान्मेघाच्युता स्खलिता विद्युत् सौदामनी अस्ति किमित्यादिप्राग्वदेव । इत्युक्तप्रकारेण कृष्णः वृन्दावने राधामन्वेषयन्नित्यार्थिकम् । संदिह्य' संदेहवृत्तिमान्दूर. त्वादिना सादृश्यसामग्रीदोषाद्भूत्वा, पश्चात्तत्समीपे गतः सन्नित्यार्थिकम् । निःश्वासैः खविरहमू कालिकतदीयश्वासोच्छासरित्यर्थः । प्रियां स्वप्रेयसी राधिकामेव तां निर्णीतवानिश्चितवानिति योजना । यथावा काव्यप्रकाशे-'इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः' इति। यथावा साहित्यदर्पणे–'किं तावत्सरसि सरोजमेतदारादाहोखिन्मुखमवभासते तरुण्याः । संशय्य क्षणमिति निश्चिकाय कश्चिद्विब्बोकैर्बकसहवासिनां परोक्षैः' इति । बकेति । प्रायशो बकैकसहवासविशिष्टानां कमलानां परोक्षैरगोचरैरित्यर्थः। एतादृशैःबिब्बोकैः। 'बिब्बोकोऽभिमतप्राप्तावपि. हर्षादनादरः' इति रामाश्रमोक्तवचनात्तत्सूचकवचनैरित्यर्थः। यथावा रसगङ्गाधरे-'चपला जलदाच्युता लता वा तरुमुख्यादिति संशये निमग्नः । गुरुनिःश्वसितैः कपिर्मनीषी निणेषीदथ तां वियोगिनीति' । तां सीतामित्यर्थः ॥ ११९ ॥ एवं ससंदेहालंकारनिरूपणे कृते तत्रान्तिमस्य निश्चयान्ततद्भेदस्य निश्चयविषयेतरकोट्यवच्छेदेन भ्रान्ति
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy