________________
साहित्यसारम् ।
[ उत्तरार्धे
सादृश्याद्धर्मिणि भ्रान्तिस्तादात्म्येनान्यधर्मिणः । चार्वनाहार्यनिश्चित्या तद्वांस्तदनुवादवाक् ॥ १२० ॥ राधिकालिङ्गितं कृष्णं दृष्ट्रा वृन्दावने चिरम् । सविद्युदम्बुदभ्रान्त्या ननृतुः केकिनः शतम् ॥ १२१ ॥ त्वसिद्धेस्तत्प्रसङ्गाद्भान्तिमन्तमलंकारं लक्षयति - सादृश्यादिति । धर्मिणि उपमेये । अन्येति । उपमानाख्यधर्मिण इत्यर्थः । सादृश्यात् सुन्दरसाधर्म्यादिति यावत् । उत्तरार्धगतात्तच्छब्दादिह यच्छब्दोऽध्याहार्यः । या चारु सुन्दरं यथा स्यात्तथा । अनाहार्येति । 'आहार्ये बाघकालीन मैच्छिकं ज्ञानमुच्यते' इति तलक्षणात्तद्भिन्नाया निश्चितिर्विचारमन्तरैवाध्यव सितिस्तयेत्यर्थः । तादात्म्येनैक्येन । भ्रान्तिः प्रसिद्धैव । तदनुवादेति । तां निरुक्तभ्रान्ति अनुवदतीति तथा तादृशी वाक्काव्यवाणी यत्र विषये स्वजन्यज्ञानद्वारा स तथेत्यर्थः । एतादृशः । तदिति । भ्रान्तिमानलं कारोऽभवतीत्यन्वयः । एवंच उपमेयावच्छेदेनोपमानस्य साधर्म्या - त्सुन्दरानाहार्यविचारप्रागभावसमानाधिकरणैक्यनिश्चितिरूपभ्रान्त्यनुवादकवाक्यज
४०८
न्यज्ञानविषयत्वं भ्रान्तिमदलंकारत्वमिति तत्सामान्यलक्षणं पर्यवस्यति । मिलितसामान्यतद्गुणाख्यवक्ष्यमाणालंकारवारणायात्रोपमेयग्रहणम् । 'अकरुणहृदय प्रियतम मुञ्चामि त्वामतः परं नाहम् । इत्यालपति कराम्बुजमादायालीजनस्य विकला सा' इति भामिनीविलासोके नायकं प्रति नायिकावृत्तकथकतत्प्रेषितदूतीवाक्ये व्यज्यमानोन्मादव्युदासायोपमानस्य साधर्म्यादिति । रज्जुसर्पादिभ्रमव्यावृत्तये सुन्दरेति । अभेदादिरूपकनिरासाय अनाहार्येति । प्रमापनोदाय रूपान्तम् । एतेन संशयोऽपि निरस्तः । पशुपक्ष्यादिनिष्टदेवापन्नभ्रान्तिभेदनाय भ्रान्तीत्यादिविषयत्वान्तम् । वाक्यमिह काव्यमेव । एवमुल्लेखवारणाय भ्रान्तावेकलं विवक्षितमिति संक्षेपः ॥ १२० ॥ अथैतमुदाहरति - राधिकेति । केकिनः स्वेष्टदर्शनजन्य हर्षोत्कर्षा - च्छब्दं कुर्वाणाः शिखिन इत्यर्थः । वृन्दावने चिरं बहुकालं यथास्यात्तथा । राधिकेति । राधया स्वयमेव प्रमुदितत्वेनाश्लिष्टमित्येतत् । कृष्णं भगवन्तं चिरं दृष्ट्वा दीर्घकालमवलोक्येति यावत् । एतेन संभावितत्वमावेद्यते । सेति । सतडिद्धनभ्रमेणेत्यर्थः । शतं अनेकसंख्याकं यथा भवति तथा चिरं ननृतुरित्यन्वयः । तथाचात्रोपमेयौ राधाकृष्णौ तदवच्छेदेन उपमानौ विद्यदम्बुदौ तयोः परमगौरत्वकृशतनुत्वनीलवर्णत्वस रसत्वसादृश्याद्दोषादनाहार्य विचारासहतादात्म्यनिश्चयरूपा भ्रान्तिर्या वृन्दावने मयूराणामतिचमत्कारकारिकण्यभूत्तदनुवादवाक्यत्वं प्रकृतपद्ये वर्तत एवेत्येतज्जन्यज्ञानविषयत्वं निरुक्तभ्रान्तिमत्यलंकारे स्फुटमेवेति लक्षणसंगतिः । यथावा काव्यप्रकाशे - 'कपाले मार्जारः पय इति करालेढि शशिनस्तरुच्छिद्रे प्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति दयिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति' इति । यथावा सरखतीकण्ठाभरणे— 'कनककलशखच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं