________________
४०६
साहित्यसारम् ।
[उत्तराध किं चन्द्रोयं कुतो नाङ्की पद्मं वोद्यत्कुतो निशि ।
इति वृन्दावने राधाननहक्संशयी हरिः॥ ११८ ॥ तिरिक्तसामर्थ्यकमेव तडिद्धनयोः संफुल्लमल्लीतमालयोश्च राधामाधवसाधर्म्य मिति गोपकुमारनिष्ठतद्विषयकज्ञानाख्यदोषमूलकः तडिद्धनारोपो हि संफुल्लमल्लीतमालारोपेण सच तेनेति परस्परं प्रतिभासमानप्रातिकूल्य एवेति तादृशासाधारणकारणकश्च योऽनेककोट्यवगाही उभयकोटिविषयकः संशयः इमौ पुरोवर्तिनौ तडिद्धनावुत उत्फुल्लमल्लीतापिच्छकाविति प्रसिद्ध एव तद्विषयिणी या श्रोतृणां सुन्दरबु. द्विश्चारुचमत्कारकारिषी ज्ञप्तिस्तजनको यः प्रकृतकाव्यात्मकः शब्दस्तत्प्रतिपा. यत्वं प्रकृते स संदेहालंकारे स्फुटमेवेति लक्षणसंगतिः । यथावा काव्यप्रकाशे'अस्याः सृष्टिविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः खयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः' इति । यथावा साहित्यदर्पणे-किं तारुण्यतरोरियं सरभसोद्भिन्ना नवा मञ्जरी वेलाप्रोच्छलितस्य किं लहरिका लावण्यवारांनिधेः । उद्गाढोत्कलिका तनोः खसमयोपन्यासविश्रम्भिणः किं साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः' इति । यथावा रसगङ्गाधरे-'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमाल: । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे' इति । अत्रोदाहरणत्रयेऽपि क्रमाद्धेतूत्प्रेक्षाशुद्धोत्प्रेक्षाविकल्पालंकारघटितत्वं बोध्यम् । यथावा कुवलयानन्दे-'जीवनग्रहणे नम्रा गृहीत्वा पुनरु. स्थिताः । किं कनिष्ठाः किमु ज्येष्ठा घटीयन्त्रस्य दुर्जनाः' इति । अत्रापि श्लेषालं. कारघटितत्वमेवेति व शुद्धससंदेहोदाहरणत्वमिति सहृदया एव विवेचयन्त्विति रहस्यम । रसगङ्गाधरेऽग्रे—'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयनृणामिति परित्रातत्रिलोकस्त्विषां व्रातः प्रातरुपातनोतु भवतां भव्यानि भासां निधेः' इति पद्यमुदाहृत्य तदिचार्यैवं च सूर्यकिरणधर्मिकः संशयो गुणीभूतो व्यञ्जनागम्यत्वाद्विषयविषयिणो. रारोपानुकूलविभक्तिकतां नापेक्षते । अपेक्षते च साक्षाच्छब्दवेद्यतायामिति कुत्राध्यवसानमूलसंशयस्येत्युक्त्वा, ततोऽग्रे किंचित् खण्डनाद्युपपाद्य 'तीरे तरुण्या वदनं सहासं नीरे सरोजं च मिलद्विकासम् । अलोक्य धावत्युभयत्र मुग्धा मरन्दलुब्धालिकिशोरमाला' इति । अतएव संशयध्वन्युदाहरणं तथा 'आज्ञा सुमेषोरविलङ्घनीया किं वा तदीया नवचापयष्टिः । न न स्थिता किंवनदेवता वा. शकुन्तला वा मुनिकन्यकेयम्' इति तद्गौणव्यङ्गयस्य । तथा 'संपश्यतां तामतिमात्रतन्वीं शोभाभिराभासितसर्वलोकाम् । सौदामनी वा सितयामिनी वेत्येवं जनानां हृदि संशयोऽभूत्' इति । तथा 'सपल्लवा किंनु विभाति वल्लरी सफुल्लपद्मा किमियं नु पद्मिनी । समुल्लसत्पाणिपदा स्मिताननामितीक्षमाणैः समलम्भि संशयः' इति चोक्तम् ॥ ११७ ॥ अथ निश्चयगर्भोदाहरणमाह-किं चन्द्रोऽयमिति ।