________________
साहित्यसारम्। [पूर्वार्ध साकाङ्क्षायोग्यतासत्तितत्कुलं वाक्यमुच्यते । यथा गामानयेत्यादि तदखण्डमुदीरितम् ॥ १४ ॥ आकाङ्क्षान्वयबोध्यन्यपदापेक्षा पदस्य या। विधेयधर्मसामर्थ्य पदार्थे योग्यता मता ॥ १५॥ आसत्तिरविलम्बेन पदानां कथनं भवेत् । एतद्विना घटं सिञ्चाग्निनेत्यादि न बोधकृत् ॥ १६ ॥ केचित्त्वाहुरयोग्यत्वनिश्चयं प्रतिबन्धकम् । ततो न वह्निना सिञ्चेदिति वाक्यान्मतिर्भवेत् ॥ १७ ॥ असमाप्तार्थकं खण्डवाक्यं यो गौस्तमाहर।
क्वचिदेकपदेऽप्येतदृश्यत्वादिति भो इति ॥ १८ ॥ श्रीशो हरिरिति ॥ १३ ॥ एवं पदतदर्थ शक्तिनिरूपणप्रसङ्गात्संक्षिप्यावसरप्राप्त वाक्यं लक्षयति-साकाङ्केति । आकासादिखरूपमत्रैवाग्रे वक्ष्यते । तत्कुलं तेषां निरुक्तलक्षणानां पदानां कुलम् । कदम्बमित्यर्थः । उदाहरति-यथेति । इदमेवाखण्डवाक्यमित्याह-तदिति ॥ १४ ॥ ननु किं तदाकालादित्रयमित्याशङ्कायां तल्लक्षयति-आकाङ्केत्यादिना कमात्साधेन । या पदस्य घटमित्यादिशब्दरूपस्य अन्वयबोध्यन्यपदापेक्षा । अन्वयं बोधयति ज्ञापयतीति तथा तादृशं यदन्यपदं आनयेत्यादिपदं तस्य अपेक्षा वाञ्छा सैवाकाङ्केत्यर्थः । विधेयेति । विधेयः उपदेशः यो धर्मस्तस्य सेचनादिरूपस्य पदार्थे जलादौ यत्सामर्थ्य सैव योग्यतेत्यर्थः ॥ १५ ॥ आसत्तिरिति । स्पष्टार्थः । एतत्रयं विनाप्यस्तु शाब्द. बोधः को दोष इति चेत्तत्राह-एतदिति । एतत् उक्तलक्षणं आकाङ्क्षादित्रयं विना घटं इति पदं सिञ्चेतिपदेन सह साकाहूं नास्ति । सेकस्य वृक्ष एवोपयोगात् , घटे तदनुपयोगाच्च । किंतु निराकासमेवेत्यत्र न शाब्दबोधः । तस्मादिदं निराकामृतोदाहरणम् , अग्निना सिञ्चेत्ययोग्यतोदाहरणमिति बोध्यम् । आदिपदादनासत्त्युदाहरणमपि दीर्घकालेन पदोचारणलक्षणं कल्प्यम् ॥ १६ ॥ योग्यताविषये मतान्तरमाह-केचित्त्विति । शाब्दबोध इति शेषः ॥ १७ ॥ नन्वस्त्वेवमाकासादिविशिष्टमखण्डवाक्यं, तथाप्येतस्याखण्डत्वोक्त्यार्थात्सखण्डवाक्यमप्ये. कमस्तीति सूचितमतः किंलक्षणं तदित्याशङ्कायां तल्लक्षयति-असमातेति । न समाप्तः पर्यवसन्नः अर्थो यस्य तत्तथा। साशङ्कमित्यर्थः । अत्र पदकदम्बमित्यध्याहारः । उदाहरति—य इति । अत्र को वा गौरित्याशङ्कायाः सत्वाल्लक्षणसमन्वयः । न केवलमस्य पदसमुदाय एवापेक्षितः किंतु क्वचिदेकपदेऽप्येतल्लक्षणं संभवतीत्याह-वचिदिति । एतदखण्डवाक्यलक्षणं चेत्यर्थः । क्रमेणोदाहरणे दृश्यत्वादितीत्यादिना । अत्र कथं द्वैतं मिथ्येति हेत्वाकाङ्क्षापूरकविशिटार्थोपपादकत्वेन पञ्चम्यन्तवादेकपदत्वेऽपि वाक्यत्वं भो इत्यत्रार्थसमाप्तेरभावात्कि भो रामेति संबोधनं भो कृष्णेति वेत्याशङ्कासत्वाच खण्डवाक्यत्वमि