________________
ऐरावतरत्नम् २ ]
सरसामोदव्याख्यासहितम् ।
पाणिनीयमतेनोक्तं विभक्त्यन्तं पदं हि यत् । तत्र सुप्प्रत्ययात्मानः प्रथमाद्या विभक्तयः ॥ १९॥ अषष्ठीप्रथमास्वेव तासु कारकता मता । अनन्याधीनता यद्वद्योगभूमिषु सप्तसु ॥ २० ॥ नियतोपस्थितावुच्चैः कृष्णो लिङ्गाधिके तटम् । द्रोणो व्रीहिर्मितावेकः संख्यायां प्रथमा मता ॥ २१ ॥
२७
त्यर्थः ॥ १८ ॥ अथैकपद इत्युक्त्या पूर्वोक्तपदलक्षणस्मरणात्प्रसङ्गतस्तद्विवरपार्थ सिंहावलोकनन्यायेन तदनुवादपूर्वकं सुव्विभक्तीरुद्दिशति - पाणिनीयेत्यादिना । सुविति सुप्रत्ययरूपा इत्यर्थः । शेषं स्पष्टम् ॥ १९ ॥ तत्रापि कारकत्वं तावत्कासांचिदेवेत्याह- अषष्ठीति । तासु पूर्वोक्त प्रथमावास सप्तसु सप्तसंख्याकासु विभक्तिषु मध्य इत्यर्थः । अपष्टीप्रथमास्वेव न विद्येते षष्टी - प्रथमे यासु तावेव । षष्टी प्रथमातिरिक्तास्वेवेत्यर्थः । तत्र दृष्टान्तमाह-अनन्येति । अनन्याधीनता अपराधीनता योगभूमिषु । शुभेच्छादियोगशब्दितचित्तनिरोधपूर्वक ब्रह्मज्ञानसाधनादिदशाखित्यर्थः । ताच भूमिकाः श्रीमद्वसिष्टेन दर्शि ता: - 'ज्ञानभूमिः शुभेच्छा स्यात्प्रथमा समुदाहृता । विचारणा द्वितीया तु तृतीया तनुमानसी । सत्वापत्तिश्चतुर्थी स्यात्ततोऽसंसक्तिनामिका | पदार्थाभाविनी षष्टी सप्तमी तुरंगा स्मृता' इति । तत्र शुभेच्छायाः प्रथमायाः मुमुक्षारूपत्वेन, 'प्रत्यग्विविदिषां वुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घनः इव' इति वार्तिकवचनानुसारेणान्तर्यामिप्रेरित निष्कामकर्माख्यपराधीनत्वसंभवातथा पदार्थाभाविन्याः षष्ट्या अपि - ' भूमिकापञ्चकाभ्यासात्स्वात्मारामतया भृशम् । आभ्यन्तराणां वाह्यानां पदार्थानामभासनात् । परप्रयुक्तेन च हि प्रयत्नेनावबोधनम् । पदार्थाभाविनी नाम षष्टी भवति भूमिका' इत्यपि वासिष्टवाक्यादेव परप्रयन्नमात्रव्युत्थानरूपत्वेन पराधीनत्वसंभवाच्च तद्भिन्नासु द्वितीयादियोगभूमिषु पूर्वपूर्वरया उत्तरोत्तर हेतुत्वेनान्याधीनत्वं युक्तमेवेति भावः ॥ २० ॥ एवं सहग्रन्तं कारकसंज्ञां द्वितीयादीनां विभक्तीनामभिधायाथ क्रमेण प्रथमादिविभक्त्यर्थकथयन्नादौ प्रथमाया अर्थमाह - नियतोपस्थिताविति । प्रथमा उच्चैः कृष्णः इति नियतोपस्थितौ तथा तटं इति लिङ्गाधिके, तथा द्रोणो त्रीहिः इति मितौ तथा एकः इति संख्यायामपि मतास्तीति योजना । उच्चैरित्यलिङ्गकस्य नियतोपस्थितिकाख्यस्य सूत्रोक्तप्रातिपदिकार्थस्योदाहरणम् । कृष्ण इति नियतलिङ्गस्येति ज्ञेयम् । नियतोपस्थितौ नियता निश्चिता उपस्थितिः शब्दश्रवणमात्रे
व ज्ञानं यस्य तस्मिन् शक्यार्थ इत्यर्थः । एवं तटं इत्युदाहरणे अनियतलिङ्गत्वेन निरुक्तप्रातिपदिकार्थे सत्यपि लिङ्गाधिके लिङ्गमात्राधिक्येऽपीत्यर्थः । तद्वत् द्रोणो त्रीहिः, द्रोणाख्यपरिमाणविशेष परिमिताः शालयः, जात्यभिप्रायेणैकवचनम्, इत्यस्मिन्नुदाहरणे मितौ पूर्ववत्परिमाणमात्राधिक्येऽपीत्यर्थः । तथा एकः इत्यु