SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् । चतुर्विशतिधा शब्दभूयिष्ठादि तु रूपकम् । मतमाभरणे तत्रानित्थं रूपकरूपकम् ॥ ११२ ॥ शंभो त्वच्चरणाम्भोजमृदुमाणिक्यमन्दिरे । धीहंसी चारुहग्भूयात्कदात्मान्यानवेक्षिणी ॥ ११३ ॥ परिणामोऽत्र विषयी विषयत्वेन कार्यकृत् । गुरोः पादाम्बुजद्वन्द्वमेव मे द्वन्द्वदाहकृत् ॥ ११४ ॥ नन्वेवं प्राचीनाचार्यमतान्तरेऽन्येऽपि रूपकभेदाः संभाव्यन्त एव, तथाच तेप्यत्र कुतो न संगृह्यन्त इत्याशङ्कय समाधत्ते-चतुर्विशतिधेति । तुशब्दः प्रोक्तशङ्काशान्त्यर्थः । आभरणे सरस्वतीकण्ठाभरणे । शब्देति । आदिना अर्थभूयिष्टादिः । एतादृशं रूपकं चतुर्विंशतिधा चतुर्विंशतिप्रकारकम् । रूपकं मतं संमतं वर्तत इत्यार्थिकम् । ततः किं तत्राह-तत्रेत्यादिशेषेण । तत्र शब्दभूयिष्ठादितत्संमतचतुर्विंशतिसंख्याकरूपकभेदमध्य इत्यर्थः । रूपकरूपकमेव अनित्थं निरुक्तकाव्यप्रकाशादिप्रतिपादितचतुर्दशरूपकभेदानन्तर्भूतं एतादृशं रूपकरूपकमेव वक्ष्यमाणमस्तीत्यार्थिकोऽन्वयः । एवंच तदिदमत्र संगृह्यत इति शेषः । तद्भिनानां त्रयोविंशतिरूपकभेदानां तु प्रोक्तचतुर्दशतद्भेदेष्वेवान्तर्भावसंभव इति भावः ॥ ११२ ॥ तदुदाहरति-शंभो इति । शं सकलकल्याणं भवत्यस्मादिति तत्संबुद्धौ तथेत्यर्थः । अतएव-त्वदिति । तव चरणावेवाम्भोजे कमले ते एव मृदुस्निग्धमेतादृशं यन्माणिक्यमन्दिरं तत्रेत्यर्थः । धीति । धीर्बुद्धिरेव हंसी राजहंसी सैव चारुदृक् मृगाक्षीत्यर्थः । आत्मेति । खेतरवस्त्वनवेक्षणशीलेत्यर्थः । एतादृशी कदा भूयादिति संबन्धः । इह चरणयोरम्भोजरूपकं तत्र मृदुमाणिक्यमन्दिररूपकम्, एवं धियि हंसीरूपकं तत्रापि सुदृग्रूपकमिति रूपकरूपकमिदमिति भावः । यथावा सरखतीकण्ठाभरणे-'मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव । लीलानाट्यामृतं दृष्टौ सखि यूनां निषिञ्चति' इति । तदेवं पञ्चदशरूपकभेदाः सर्वेऽपीति शिवम् । उपलक्षणमिदं रसगङ्गाधरोक्तवाक्यार्थरूपकस्यापि । तद्यथा तत्रैव रूपकप्रकरणे-‘एवं पदार्थरूपकं लेशतो निरूपितम् । एवं वाक्यार्थे विषये वाक्यार्थान्तरस्यारोपे वाक्यार्थरूपकम् । यथाहि विशिष्टोपमायां विशेषणानामुपमानोपमेयभाव आर्थस्तथात्रापि वाक्यार्थघटकानां पदार्थानां रूपकमप्यवसेयम् । 'आत्मनोऽस्य तपोदानैर्निर्मलीकरणं हि यत् । क्षालनं भास्करस्येदं सरसैः सलिलोत्करैः' इत्यादि । यथावा ममाद्वैतामृतमञ्ज. याम्—'रहसि प्रियसख्यामपि वक्तुं या ह्रीः कुलीननववध्वाः । निजकान्तसंगवृत्तं सैव मुनेब्रह्मसुखकथने' इति ॥ ११३ ॥ एवमुपमेयस्योपमानाभेदरूपरूपकनिरूपणप्रसङ्गसंगतमुपमेयतादात्म्यतः प्रकृतकार्यकार्युपमानवर्णनविषयं परिणामालंकारं लक्षयति-परिणाम इत्यर्धेन । अत्र अलंकारशास्त्र एव नतु लोके । अपरशास्त्रे वा विषय्युपमानं विषयत्वेन उपमेयत्वेन कार्यकृत्प्रकृतकार्यसाधकं
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy