________________
साहित्यसारम् ।
[ उत्तरार्धे बोधोऽमृतफलः स्वर्दुस्त्यागोऽनार्दोऽमृतद्युतिः। योगश्चिन्तामणिः साक्षाद्भक्तिः श्रीरपरा स्थिरा ॥ ११० ॥ श्रद्धास्त्यमूर्तारम्भान्या शान्तिस्तु सुरभिः परा।
एवं चतुर्दशैवासन्रूपकाण्यभिमेलनात् ॥ १११ ॥ मानेन उप समीपे मानं ज्ञानं यस्य तेन नित्यज्ञानवतेश्वरेण सहेत्यर्थः । त्रिधा स्थूलसूक्ष्मकारणभेदात्रिप्रकारम् । सायुज्यात् सगुणब्रह्माहंग्रहोपासनपरिपाकत ऐक्यात् । तथासारूप्यात् किंचिन्यूनतत्परिपाकतस्तल्लीलाविग्रहसमरूपत्वादित्यर्थः । आधिक्येति । आधिक्यन्यूनत्वाभ्यां याऽनुभयोक्तिर्भेदोक्त्यभावस्तेनेतियावत् । रूपकं रूपस्य जीवखरूपस्य कं सगुणसुखम् । दीक्षितैः प्रतिपादितमिति योज्यम् ॥ १०९ ॥ तत्रैकैकपादेनैकैकरूपकोदाहरणं प्रकटयन्षण्णामपि तेषां तानि सार्धश्लोकेन संक्षिपन् प्रथममुद्देशक्रमप्राप्तमभेदाधिक्यरूपकमुदाहरति-बोध इति । बोधः ब्रह्मात्मैक्यसाक्षात्कारः अमृतफल: कैवल्यैकफलः एतादृशः खर्ट्स: कल्पद्रुमोऽस्तीत्यर्थः । अत्रोपमेयस्य बोधस्योपमानेन खर्दुणा सहाभेदारोपात्कल्पद्रुमस्य हि रसनाखाद्यफलविशेषवत्त्वस्यैव पुराणादिप्रसिद्धेश्चेह बोधतादात्म्यापन्नस्य तस्य मोक्षफलत्वकथनादिदमभेदाधिक्यरूपकमिति लक्षणसंगतिः । एवमेवाग्रेऽपि बोध्यम् । यथावा कुवलयानन्द एव–'त्वय्यागते किमिति वेपत एष सिंधुस्त्वं सेतुमन्थकृदतः किमतौ बिभेति । द्वीपान्तरेऽपि न हि तेऽस्त्यवशंवदोऽद्य त्वां राजपुङ्गव निषेवत एव लक्ष्मीः ' इति । अथ द्वितीयमभेद. न्यूनत्वरूपकमुदाहरति-त्याग इति । अमृतेति च्छेदः । अनादः अस्नेहः । सेन न्यूनत्वम् । त्यागे ह्यस्नेहत्वं प्रसिद्धमेव । यथावा तत्रैव-'वेधा द्वेधा भ्रम चक्रे कान्तासु कनकेषु च । तासु तेष्वप्यनासक्तः साक्षाद्भर्गो नराकृतिः' इति । एवमेव तृतीयमभदानुभयोक्तितत् योग इति । यथावा तत्रैव-'चन्द्रज्योत्स्नाविशदपुलिने सैकतेऽस्मिन्सरय्वा वादयूतं चिरतरमभूत्सिद्धयूनोः कयोश्चित् । एको वक्ति प्रथमनिहतं कैटभं कंसमन्यस्तत्त्वं स त्वं कथय भवता को हतस्तत्र पूर्वम्' इति । अथ ताद्रूप्यरूपकत्रयमध्य आधिक्यताद्रूप्यं तत् भक्तिरिति । अपरा द्वितीया स्थिरेत्याधिक्यम् । यथावा नैषधीयचरिते—'किमसुभिर्लपितैर्जड मन्यसे मयि निमज्जतु भीमसुतामनः । मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरां विबुधः स्मरः' इति ॥ ११० ॥ तद्वन्नूनत्वताद्रूप्यं तत् श्रद्धेति । यथावा-'अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अभाललोचनः शंभुर्भगवान्बादरायणः' इति । एवमनुभयोक्तिताद्रूप्यं तत् । शान्तिस्त्विति । सुरभिः कामधेनुः परा द्वितीया । यथावा-'किं पद्मस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धिं वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरु. ज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरः' इति । तथाच प्रा. चीनैरष्टभिरेतैश्च षडिमिलित्वा चतुर्दशरूपकाण्यभूवनित्याह-एवमिति ॥१११॥