________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
तत्परम्परितं शुद्धं धृतिर्दैन्यान्यचन्द्रिका । मालारूपं तु तत्कान्तां सुखाधिश्रीः स्मरन्दुभा ॥१०७॥ सायुज्यादथ सारूप्यादुपमानेन रूपकम् । उपमेये त्रिधाधिक्यन्यूनत्वानुभयोक्तितः ॥ १०८ ॥ षोढा कुवलयानन्द दीक्षितैः प्रतिपादितम् ।
तदप्युदाहराम्यत्र सायुज्याधिक्यमुख्यतः॥ १०९ ॥ कुवलयस्येन्दुरानन्दयति मानवान्' इति ॥ १०६ ॥ अस्ति परम्परिताख्यतृतीयरूपकभेदस्य द्वितीयः शुद्धाख्योऽपि भेदः केवलो मालारूपश्चेत्युद्देशक्रमानुसारात्तत्र कथं तल्लक्षणाद्यपीत्यपेक्षायां तदाह-तदित्यादि । क्रमात् पूर्वोत्तराधाभ्याम् । धृतिर्दैन्येति । इह दैन्ये आन्ध्यत्वारोप एव धृतौ चन्द्रिकारोपस्य कारणं भवतीति परम्परितसामान्यलक्षणस्य तथा श्लेषशून्यत्वेन शुद्धत्वस्य मालारूपराहित्यात्केवलाख्यतत्प्रथमभेदत्वस्य तद्विशेषलक्षणस्यापि सत्वात्तदुदाहरणत्वमिति तत्त्वम् । यथावा मदीयाद्वैतामृतमञ्जर्याम्-'धैर्यपयोनिधिचन्द्रः शिबिर्दधीचिर्विवेकदिनसूर्यः । कार्पण्यतृणकृशानुः समभूत्कर्णः क तत्र वयम्' इति । मालेति । कान्ता यावत्स्त्रीगुणसकलदोषाभावविशिष्टस्वसुन्दरीत्यर्थः । शिष्टं तु स्पष्टमेव । यथा वैधपेण साहित्यदर्पणे–'सौजन्याम्बुमरुस्थली सुचरितालेख्य. युभित्तिर्गुणज्योत्स्नाकृष्णचतुर्दशी सरलतायोगे श्वपुच्छच्छटा । यैरेषापि दुराशया कलियुगे राजावली सेविता तेषां शूलिनि भक्तिमात्रसुलभे सेवा कियत्कौशलम्' इति ॥ १०७ ॥ अथ कुवलयानन्दकृतां श्रीमदप्पय्यदीक्षितानां संमतान्रूपकालंकारभेदानन संक्षेपतः संजिघृक्षुस्तल्लक्षणसंक्षेपणध्वननपूर्वकं भङ्गयन्तरेण ताननूद्यात्र तत्संग्रहणं प्रतिजानीते-सायुज्यादित्यादियुग्मेन । दीक्षितैः यदित्यार्थिक रूपकम् । उपमानेन विषयिणा सह उपमेये वर्ण्य विषये सायुज्यात् । आरोपिताभेदाद्धेतोः । अथ तथा सारूप्यात्समानरूपत्वापरपर्यायीभूतताद्रूप्यानिमित्ताच्चेत्यर्थः । क्रमादिति शेषः । आधिक्येति । आधिक्यस्य उपमानापेक्षया उपमेये रञ्जकयत्किंचिद्धर्माधिक्यस्य न्यूनत्वस्य तदपक्षयैव किंचिद्राकधर्मवैधुर्यस्य तथा अनुभयस्य आधिक्याद्यभावशब्दितसाम्यस्य च या उक्तयस्ताभिरिति यावत् । त्रिधा प्रत्येकमभेदताद्रूप्ययोस्त्रित्रिप्रकारमतः ॥ १०८ ॥ षोढेति । कुवलयानन्दे प्रसिद्ध एतन्नाम्नि ग्रन्थ इत्यर्थः । षोढा षट्प्रकारकं प्रतिपादितमस्ति तदप्यहमत्र ग्रन्थे । सायुज्येति । अभेदाधिक्यादिभेदेनेत्यर्थः। उदाहरामि दिङ्मात्रेण संगृह्णामीति संबन्धः। समासोक्त्यलंकारघटक श्लेषेण । पक्षे षोढा पञ्चज्ञानेन्द्रियान्तःकरणकरणकत्वेन षड्डिधः कुवलयेऽन्तः प्राथमिकहिरण्मयपार्थिवावरणयुक्तब्रह्माण्डमण्डलमध्य इत्येतत् आनन्दः सुखमेव यस्मिंस्तत्र ब्रह्मलोक इत्यर्थः । उपमेये उप। 'उपोपसर्गः सामीप्ये तत् प्रतीचि समाप्यते' इति वार्तिकादात्मनि मातुं योग्ये दृश्यत्वाद्भासनाहे जीवचिदाभास इति यावत् । उप