________________
४०.
साहित्यसारम् ।
[उत्तरार्धे आरोप एव यत्र स्यादारोपान्तरकारणम् । तत्परम्परितं तत्र श्लेषमूलः स चेत्तथा ॥ १०५॥ सुशां तिलकश्रीमहुरोऽस्यतुलसौख्यदः।
तन्मालारूपमलेयं हरिबन्धनशृङ्खला ॥ १.६॥ वक्रगिरां विधेरनवधिप्रावीण्यसाक्षाक्रिया प्राणः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया' इति ॥ १०४ ॥ अथ क्रमप्राप्तं तृतीयं परम्परिताख्य रूपकभेदं संप्रपञ्चयितुं तत्सामान्यं लक्षयति-आरोप एवेति । तथाचोक्तं रसगङ्गाधरे'यत्र च आरोप एव आरोपान्तरस्य निमित्तं तत्परम्परितम्' इति । एवं परम्परितसामान्येऽपि तद्भेदद्वयमध्ये प्रथमं समुद्दिष्टं श्लिष्टाख्यं भेदं लक्षयतितत्रेत्यादिशेषेण । सः आरोपः श्लेषमूल: वक्ष्यमाणश्लेषालंकारकारणकश्चेत्तर्हि तथा श्लिष्टपरम्परितं भवतीत्यन्वयः । इदमप्युक्तं तत्रैव । तत्रापि समर्थकत्वेन विवक्षितस्यारोपस्य श्लेषमूलकत्वे श्लिष्टपरम्परितमिति तदुदाहरणे स्पष्टं भविध्यतीति भावः ॥ १०५ ॥ तदुदाहरति-सुदृशामिति । हे सुदृशां शोभना दृक् ज्ञानं येषां तेषां पण्डितानां परोक्षज्ञानिनामित्यर्थः । तिलकगौणवृत्त्या तिलकवन्माङ्गल्यजनकेत्यर्थः । पक्षे मृगाक्षीणां ललाटगतकुङ्कुमतिलकेत्येतत् । शिष्टं तु सरलमेव । अत्र गुरौ यस्तिलकत्वारोपः परमानन्दप्रदत्वसाधात्कृतस्तत्र कारणं पण्डितेषु सुन्दरीत्वारोप एवेति परम्परितसामान्यलक्षणस्य तथाऽसौ श्लेषमूलक एवेति श्लिष्टपरम्परिताख्यतत्प्रथमभेदरूपविशेषलक्षणस्य समन्वयः स्फुट एव । यथावा मदीये नीतिशतपत्रे-'मूर्खताख्या पिशाचीयं यस्य चेतसि संविशेत् । तमेव भ्रामयत्याशापञ्चकेऽप्यनिशं वृथा' इति । अत्र शब्दादीष्टविषयकाशापदवाच्याभिलाषपञ्चकमेव आशापदवाच्यदिक्पञ्चकमिति श्लेषेणोर्ध्वदिशा सहितासु प्राच्यादिदिक्षु समीहितशब्दादिविषयपञ्चकतृष्णारोपान्मूर्खतायां पिशाचीतादात्म्यारोप इति लक्षणसंगतिरित्याकूतम् । अथोद्देशक्रमप्राप्तं मालारूपं श्लेषघटितमेव तन्मालेति परम्परितं लक्षयति । तदुदाहरति-अब्जेयमिति । इयं वर्णनीयत्वेन बुद्धिस्थत्वात्साक्षिप्रत्यक्षा । अब्जा । लक्ष्मीः पद्मालया पद्मा' इत्यमरालक्ष्मीरित्यर्थः । हरीति । हरिर्विष्णुः पक्षे सिंहः तद्वन्धनं वशीकरणं पक्षे रोधनं तत्साधनीभूता शृङ्खला गौरतया कनकशृङ्खला । साहि भूषणतया विष्णोरपि कण्ठतो वक्षोधारणाथै लोभं कौस्तुभवजनयेदेवेति तदारोपो निरुक्तश्लेषघटितो लक्ष्म्यामुचित एव । एतादृशानि द्वित्राणि जगज्जीवनपीयूषवल्लीकुवलयप्रमुदित्यादीन्यत्र विशेषणान्तराणि खयमेवोह्यानि । मया तु श्लिष्टपरम्परितरूपकभेदः केवलमालारूपत्वाभ्यां द्विविधोऽपि श्लेषाख्यालंकारान्तरसंसृष्टत्वादनादरणीय एवान्यथा परिकरपरिकराङ्कुरकाव्यलिङ्गाख्यालंकाराणां प्रायः सर्वत्र संभवात्तद्वटितानामपि रूपकभेदानां ग्रहः कुतो न कार्य इत्यापत्तेरित्यखरसात्तत्प्रपञ्चो नैव कृत इत्याकूतम् । यथावा रसगङ्गाधरे-कमलावासकासारः क्षमाधृतिफणीश्वरः । अयं