________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
लक्ष्मीविद्युत्समाश्लिष्टः शाइँन्द्रधनुषान्वितः। पातु मां भवतापात भगवान्करुणाम्बुदः ॥ १०२॥ अन्त्यं सावयवं तत्स्यादेकदेशविवर्ति यत् । संसारपञ्जरान्मुक्ताः क्रीडन्त्यानन्दनन्दने ॥ १०३॥ अनंशि शुद्धमेवेदं विद्याकल्पलता मता।
तन्मालारूपमात्मज्ञः श्रुतेर्बन्धुर्मतेः प्रियः ॥ १०४ ॥ क्यादेव नतु प्रत्यक्षादिनापी यर्थः। उपजायते संपद्यते तत्समस्तवस्तुविषयं सावयवरूपकमिति संबन्धः ॥ १०१ ॥ तदुदाहरति-लक्ष्मीति । अत्रोपमेय. मधिकरणं लक्ष्म्यादि तत्रारोप्यवस्तु विद्युदादि तयोरभेदघटको लक्ष्मीरेव विद्युगौरत्वभावरत्वचपलत्वादिसाधर्म्यण विद्युदभिन्नेति समासात्समस्तवस्तुत्वं तद्विषयकज्ञानस्योक्तशब्दैकजन्यत्वं चेति लक्षणसमन्वयः । यथावा रसगङ्गाधरे 'सुविरलमौक्तिकतारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्णचन्द्रे सुन्दरि राकासि नात्र संदेहः' इति । अपिच तत्रैव-'व्योमाङ्गणे सरसि नीलिमदिव्यतोये तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमङ्कभृङ्ग सूराभिमुख्यविकचं शशिपुण्डरीकम्' इति । विस्तरस्तु तत्रैव बोध्यः । अन्योन्यसापेक्षे. यादिसावयवरूपकसामान्यलक्षणं तु पद्यत्रयेऽपि स्फुटमेवेति दिक् ॥ १०२ ॥ अथ क्रमप्राप्तमेकदेशविवाख्यं द्वितीयं सावयवरूपकभेदं लक्षयति-अन्त्यं सावयवमिति । एकेति । एकदेशे कस्मिंश्चिच्छब्दानुपात्तेऽपि सहचरैरपरावयवैराक्षिप्तारोप्येऽवयवे विवर्तते परिणमत इति तथेत्यर्थः । उक्तं हि रसगङ्गाधरे-'यत्र च क्वचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिचार्थसामर्थ्याक्षिप्तं तदेकदेशे शब्दानुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेन च वर्त. नादेकदेशविवर्तीति । तदुदाहरति-संसारेति । अत्र मुक्ताख्योपमेयेऽवयवे आरोप्यमाणत्वेनेष्टस्य कीराख्योपमानस्य शब्दानुपात्तत्वे संसारेत्यादिपूर्वोत्तररूपकादिसहचरैः कीरत्वस्य विवर्तमानत्वाल्लक्षणसगंतिः । यथावा तत्रैव-भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो बलादुन्मूल्य द्राङ्गिगडमविवेकव्यतिकरम् । विशुद्धेऽस्मि. नात्मामृतसरसि नैराश्यशिशिरे विगाहन्ते दूरीकृतकलुषजालाः सुकृतिनः' इति ॥ १०३ ॥ अथ परस्परासापेक्षोत्पत्तिरूपकत्वेन निरवयवरूपकसंबन्धिमालात्वाभावप्रयुक्तकेवलाख्यं शुद्ध रूपकं लक्षयति-अनंशीतिपादेन । तदुदाहरतिविद्येति । तेनैव । यथावा काव्यप्रकाशे-'कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत्सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः खपिति तदहो वेन्यभिनवां प्रवृत्तोऽस्याः सेक्तं हृदि मनसिजः प्रेमलतिकाम्' इति । एवं निरवयवमेव मालाकारग्रथनान्मालारूपकं लक्षयति-तदिति । तदुदाहरति-आत्मज्ञ इति । यथावा काव्यप्रकाशे-'सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नमरहसामुल्लासनावासभूः । विद्या