________________
३९८
साहित्यसारम् ।
[ उत्तरार्धे
द्वितीयं केवलं मालारूपं चेति द्विधाद्यवत् । तृतीयं श्लिष्टशुद्धत्वभेदावधापि च द्विधा ॥ ९९ ॥ प्रत्येकं केवलं मालारूपकं चेति चाष्टधा। आद्यमन्योन्यसापेक्षोत्पत्तिरूपकसंहतिः॥१०॥ समस्तविषयं तत्र तद्यत्रारोप्यवस्तुनाम् ।
समस्तानामभिस्फूर्तिः शब्दादेवोपजायते ॥ १०१॥ वयवाख्यस्यापि द्वैविध्यमभिधत्ते-द्वितीयमित्यर्धेनैव । आद्यवत्सावयववदित्यर्थः । एवं तृतीयस्य परम्परिताख्यस्यापि श्लिष्टत्वादिना द्वैविध्यं विधत्ते-तृतीयमित्यादिना । पुनस्तद्वैविध्यं प्रतिजानीते-अपिचेत्यादिशेषेण ॥ ९९ ॥ अथ श्लिष्टपरम्परितं शुद्धपरम्परितं चापि पुनधेित्यतस्तद्विशदयति-प्रत्येकमित्यादिना । एकं शुद्धं श्लिष्टपरम्परितं द्वितीयं मालारूपं श्लिष्टपरम्परितं चेत्यर्थः । उपसंहरति-इतीति । तदुक्तं रसगङ्गाधरे-'तदिदं रूपकं सावयवं निरवयवं परम्परितं चेति शुद्धपरम्परितं चेति द्विविधं तावत्रिविधम्। तत्राद्यं समस्तवस्तुविषयमेकदेशविवर्ति चेति द्विविधम् । द्वितीयमपि केवलं मालारूपं चेति द्विविधम् । तृतीयं च श्लिष्टपरम्परितं सत्प्रत्येकं केवलमालारूपत्वाभ्यां चतुर्विधमित्यष्टविधमाहुरिति । तत्र प्रथम सावयवं रूपकं लक्षयति-आद्यमित्याद्युत्तरार्धेनैव सामान्यतः । अन्योन्यति । अन्योन्यं परस्परं सापेक्षा हेतुहेतुमद्भावेन साकाङ्क्षा उत्पत्तिः कविनिबद्धाविभूतिर्येषामेतादृशानि यानि रूपकाणि अभेदतादारम्यान्यतरसंबन्धेन सुन्दर उपमेये सुन्दरोपमानारोपविषयवस्तूनि तेषां संहतिः संघात इत्यर्थः । स एव आयं सावयवं निरुक्तहेतुमद्भावात्कनककटकन्यायेनावय. वैर्हेतुभिः सह वर्तत इति तथैतत्संज्ञक रूपकं भवतीत्यन्वयः । एतदप्युक्त तत्रैव । तत्र परस्परसापेक्षनिष्पत्तिकानां रूपकाणां संघातः सावयवमिति । एवंच परस्परसापेक्षनिष्पत्तिकरूपकनिकरत्वं सावयवरूपकत्वमिति तल्लक्षणं फलितम् । अत्र 'शरदिन्दुमुखी राधा श्रीकृष्णः करुणाम्बुदः । मनोवृन्दावनेऽस्माकमुभौ विहरतां चिरम्' इति मदीये पद्ये परस्परनिरपेक्षनिष्पत्तिकरूपकनिकरत्वेन तत्राप्रसङ्गभङ्गार्थ परसापेक्षनिष्पत्तिकेति, मालोपमाव्यावृत्तये रूपकेति, तन्मात्रव्युदासाय निकरेति ॥१०० ॥ एवं सावयवाख्यस्य रूपकप्रथमभेदस्य सामान्यतो लक्षणं संक्षिप्याथ समस्तविषयैकदेशविवर्तित्वभेदाभ्यां तद्वैविध्यस्योद्दिष्टत्वादादौ समस्तविषयाख्यं तद्भदं लक्षयति-समस्तेति । तत्र सावयवरूपकस्य भेदद्वयमध्य इत्यर्थः । तत् रूपकं समस्त विषयं भवति यत्र आरोग्यवस्तूनां आरोप्याणि सादृश्यात्कविनाध्यस्यानि यानि मुखाद्यधिकरणे चन्द्रादीनि वस्तूनि तेषामित्यर्थः । समस्तानां यत्रावयवानामवयविनश्च सामस्त्येन निरूपणं निबध्यते तत्समस्तवस्तुविषयं रूपकमिति विद्यानाथवचनात्समासघटितानामिति यावत् । अभिस्फूर्तिः प्रकटप्रतीतिः शब्दादेव मुखचन्द्रः प्रियायाम इत्यादिवा