________________
सरसामोदव्याख्यासहितम् ।
इदमष्टविधं काव्यप्रकाशादिचतुर्मते । तद्यथा रूपकं सामान्यतस्त्रिविधमुच्यते ॥ ९७ ॥ अंश्यनंशित्वभेदाभ्यां परम्परित भेदतः । आद्यं समस्तविषयमेकदेशविवर्ति च ॥ ९८ ॥
कौस्तुभरत्नम् ]
८
३९७
1
पदाभ्यां सादृश्यलाभात्सुखं मनोरमारामेति प्रभृतिशुद्धारोपविषयतादात्म्यस्य विशि`टलक्ष्यपदार्थस्य व्युदासः । तदुदाहरति - आत्मेति । राज्ञि राज्ञिराडित्यमराद्राजत इति व्युत्पत्तेरानन्दात्मैव प्रत्यगेव राडिति विग्रहाच | आत्माभिन्नः सार्वभौमो भवतीति भावः । अत्रोपमेयतावच्छेदकमात्मत्वं तत्पुरस्कारत्वसूचकोद्देश्यतावच्छेदेन प्रथमप्रयोगस्तेन उपमेये 'यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य संततो भावस्तस्मादात्मेति भण्यते' इति वचनप्रतिपादितात्मपदवाच्ये प्रतीचि उपमानप्रतियोगिकवक्ष्यमाणतादात्म्यानुयोगितावच्छिन्नं शब्दावधृतं समानाधिकरणसमभिव्याहृतात्मराट्रशब्दमात्रनिर्णीतं उपमानं रादपदवाच्यश्रीरामादिसार्वभौमस्तस्य तादात्म्यं भेदसहिष्णुरभेदः स्पष्टमेवेति लक्षणसंगतिः । यथावा बृहयोगवासिष्ठे — 'प्रशान्तमोहदारिद्र्यो दुराशादोषसंक्षये । विवेकधनसंभारात्स्थितोऽस्मि परमेश्वर' इति । एतेनेह मानुषानन्दमारभ्य हैरण्यगर्भानन्दान्त निखिल विषयसुखसीकरशुद्धोदसागरत्वमद्वैतात्मनि व्यज्यते । तेन सार्वदिकतदनुसंधानपूर्वकदृश्याननुसंधानलक्षणजीवन्मुक्तिरपि व्यक्तैव । यथावा मदीये कृष्णलीलामृते - 'इदं यदीयं चरितं चमत्कृतिं चिनोति चिन्मात्रितचेतसामपि । स्वतः सदैकोऽपि स कोऽपि गोपिकाकुचस्थलीनीलमणिर्विराजते' इति । नन्वत्रोपमितसमासाश्रयणे लुप्तोपमापि संभवत्येव । तथाच कथमिदं रूपकस्यैवोदाहरणमिति चेद्वाढम् । प्राक्तनलक्षणवाक्यसमभिव्याहारादेवेति गृहाण । अन्यथा गत्यन्तराभावात् । अत एवोक्तं रसगङ्गाधरे—'ययोरिवादिशब्दप्रयोगे उपमा तयोरेकत्रान्यारोपे रूपकमिति नियमात्' इति । एवं चात्रोपमासमानत्वेन प्रायस्तद्भेदानन्त्यवदेतद्भेदानन्त्यमेव तत्तदाचार्यमतभेदविचारे स्वचातुरीसंचारे च पर्यवस्येदेवेति दिकू ॥ ९६ ॥ ननु भवत्वेवं रूपकसामान्यलक्षणं तदुदाहरणं च, तथाप्यस्योपमासमकक्षत्वेन प्रागुकरीत्या तद्वदेव बालव्युत्पादनार्थं दिव्यानं कतिचिद्भेदाः प्रतिपाद्या एवेत्यतस्तद्भेदसंख्यां प्राचीनाचार्यचतुष्टयमतेन स्पष्टं प्रतिजानीते — इदमित्यर्धेन । काव्यप्रकाशेति । आदिना प्रतापरुद्रीय साहित्यदर्पणरसगङ्गाधराः । कथं तदष्टविधत्वमित्यपेक्षायां तत्प्रपञ्चयति - तद्यथेत्यादित्रिभिः ॥ ९७ ॥ कथं तत्रैविध्यमित्यत आह-अंशीत्यर्थेन । अंशि सावयवम् । अनंशि निरवयवम् । परम्परितेति । परम्परिताख्यतृतीय रूपकभेदेनेत्यर्थः । एतेषां लक्षणान्यप्रे वक्ष्यामः । तत्राप्याद्यस्यां श्याख्यसावयवस्य पुनद्वैविध्यं विधत्ते - आद्यमित्यधैनैव । समस्तेत्याद्यपि संज्ञाद्वयं प्राग्वत्तान्त्रिकमेव ॥ ९८ ॥ एवं द्वितीयस्य निर३४
-