SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ४.४ साहित्यसारम् । [उत्तरार्धे समानबलसादृश्यमूलप्रोद्यद्विरोधतः। ससंदेहस्तु नानाकोट्यवगाहिसुधीप्रदः ॥११५॥ चेत्परिणामः परिणामालंकारो भवतीत्यन्वयः । एवंच विषयिशब्दितोपमाविषयपदवाच्य उपमेये तत्त्वेन प्रकृतकार्यसिद्ध्यार्थमभेदारोपवर्णनविषयत्वं परिणामालंकारत्वमिति तल्लक्षणं बोध्यम् । तदुक्तं रसगङ्गाधरे-'विषयी यत्र विषयात्मतयैव प्रकृतोपयोगी न खातन्येण स परिणामः । अत्र च विषयाभेदो विषयिण्युपयुज्यते । रूपके तु नैवमिति रूपकादस्य भेदः' इति । तमुदाहरतिगुरोरिति । अत्र द्वन्द्वशब्दितसकलद्वैतदाहरूपकार्यकर्तृत्वमम्बुजाख्योपमानस्य गुरुपादरूपोपमेयतादात्म्ये सत्येव संभवेन त्वन्यथा क्वचिदपीति लक्षणसंगतिः । यथावा पण्डितरायाणाम्-'अपारे संसारे विषमविषयारण्यसरणौमम भ्रामभ्रामं विगलितविरामं जडमतेः। परिश्रान्तस्यायं तरणितनयातीरनिलयः समन्तात्संतापं हरिनवतमालस्तिरयतु' इति । व्यधिकरणो यथा-'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन । इयं हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात्' इति । दर्पणे द्वयं द्विविधोऽपि व्युत्क्रमेणैवोदाहारि-'स्मितेनोपायनं दूरादागतस्य कृतं मम । स्तनोपपीडमाश्लेषस्ततो यतपणस्तया' इति । नन्वेवं व्यधिकरणस्त्वया कुतो नोक्त इति चेत्सत्यम् । उपमानोपमेययोस्तादात्म्ये सत्युपमा. नस्योपमेयात्मना प्रकृतकार्यकारिखस्योभयत्रापि तुल्यत्वाद्वैयधिकरण्येऽपि चमत्कारान्तरादृष्टेश्चेति दिक् ॥ ११४ ॥ नन्वेवं विषयिणो विषयतादात्म्येन कार्यकारिलं किं प्रायिकमेव विवक्षितं यद्वा यथाकथंचिदिति संशयप्रसङ्गसंगतं ससंदेहं लक्षयति -समानेति । समानबलं अन्यूनानतिरिक्तसामर्थ्य एतादृशं यत्सादृश्यं साधये उपमेयस्य मुखस्य उपमेयानुरूपाभ्यां चन्द्रपद्माख्योपमानाभ्यां साकं तौल्यमिति यावत् । तन्मूलं यस्य एतादृशो यः प्रोद्यन् भासमानः सचासौ विरोधश्च तस्माद्धतोरिति तथेत्यर्थः । नानेति । नाना अनेकाः याः कोट्यः विषताहव्यक्तयस्ता अवगाहते विषयीकरोत्येतादृशी या सुधीः सुन्दरज्ञप्तिः तां ददाति खप्रतिबोधकका. व्यद्वारा जनयतीति तथेत्यर्थः । स संदेहः उपमेयविषयकानेकोपमानकोटिकारोपसंदेहसाहित्यादेतत्संज्ञकोऽलंकारोभवतीति संबन्धः । तदुक्तं रसगङ्गाधरे-'सादृश्यमूलाभासमानविरोधकसमबलनानाकोट्यवगाहिनी धीरमणीया ससंदेहालंकृतिः' इति । नन्वत्र बुद्धि विशेष एवोक्तालंकारत्वं प्रतीयते त्वया तु तजनकशब्दबुद्धार्थविशेष एव । तदुक्तं तत्कथं न तेन सह विरोध इतिचेन्न । तल्लक्षण एवैवं विवक्षाया अवश्यवाच्यत्वादन्यथा तादृशसंदेहशालिनि देवदत्तेऽतिव्याप्तेर्जडे काव्ये तादृशधीमत्त्वाभावादव्याप्तेश्च दुष्टं तल्लक्षणं स्यात्तस्मात्तत्परिष्कार एवायमिति ध्येयम् । एवं चान्यूनानतिरिक्तसामर्थ्यकसाधर्म्यज्ञानाख्यदोषमूलकपरस्परप्रतिभासमानप्रातिकूल्यकरणकानेककोट्यवगाहि सुन्दरबुद्धिजनकशब्दप्रतिपाद्यत्वं स संदेहालंकारसमिति तल्लक्षणं पर्यवस्यति । अत्र-'किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy