________________
साहित्यसारम् ।
[उत्तरार्धे खलस्य हदि कौटिल्यं बालायाः कुन्तलाग्रतः। चतुर्थमुपमानस्य क्षेयं कैमर्थ्यवर्णनम् ॥ ९१॥ गौराङ्गीषु सतीष्वत्र भान्तीमा विद्युतः कुतः। पञ्चमं तूपमेयस्यान्यन सादृश्यनिह्नवः॥ ९२॥ सुन्दरि त्वद्वियोगाभोऽग्निरिति व्यर्थकल्पना। तत्राद्येतरमन्यानि सन्ति काव्यप्रकाशके ॥९३॥ आद्यं प्रतापरुद्रीये चतुर्थमपि संमतम् । रसगङ्गाधरे त्वत्र न किंचिदपि युज्यते ॥९४॥ आद्यत्रयस्योपमायामन्तर्भावोपपादनात् ।
आक्षेपे तु चतुर्थस्य व्यतिरेकेऽन्तिमस्य च ॥ ९५ ॥ तदुदाहरति-खलेति । यथावा कुवलयानन्दे-'गर्वमसंभाव्यमिमं लोचनयुगुलेन किं वहसि भद्रे । सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि' इति । यथावा रसगङ्गाधरे-'निभाल्य भूयो निजगौरिमाणं मानापमानं हृदये विधासीः । गृहे गृहे पश्य तवाङ्गवर्णा मुग्धे सुवर्णावलयो लुठन्ति' इति । चतुर्थमिति ॥ ११ ॥ तदुदाहरति-गौराङ्गीष्विति । यथावा काव्यप्रकाशे'लावण्यौकसि सप्रतापगरिमण्यप्रेसरे सागिनां देव त्वय्यवनीभरक्षमभुजे निष्पा. दिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारनमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः' इति । पञ्चमं लक्षयति-पञ्चमं त्विति । अन्येन उपमानेन निह्नवः अपलापः । असंभववर्णनमिति यावत ॥ ९२ ॥ तदुदाहरति-सुन्दरीति । यथावा कुवलयानन्दे-'आकर्णय सरो. जाक्षि वचनीयमिदं भुवि । शशाङ्कस्तव वक्रेण पामरैरुपमीयते' इति । यथावा रसगङ्गाधरे-'करिकुम्भतुलामुरोजयोः क्रियमाणां कविभिर्विशालैः । कथमालि शृणोषि सादरं विपरीतार्थविदो हि योषितः' इति । तत्र पञ्चप्रतीपमध्ये केषां कानि संमतानीत्यत्राह-तत्रेत्यादिसार्धेनैव । आद्यात्प्रथमादितराण्यन्यानि यथास्यात्तथेत्यर्थः । काव्येति । खार्थे कप्रत्ययः । काव्यप्रकाश एवेत्यर्थः ॥ ९३ ॥ आद्यमिति । तद्यथा तत्रैव 'आक्षेप उपमानस्य कैमर्थक्येन कध्यते । यद्वोपमेयभावः स्यात्तत्प्रतीपमुदाहृतम्' । यत्रोपमेयस्य लोकोत्तरत्वादुपमानाक्षेपः प्रतीयते तदेकं प्रतीपम् । यत्रोपमेयस्योपमानत्वं कल्प्यते तहितीयमिति। रसेति । अत्र प्रतीपपञ्चकमध्य इत्यर्थः। युज्यते युक्तं भवतीत्येतत्॥१४॥ तत्र हेतुमाह-आद्यत्रयस्येति । अत्र तदीयक्रमस्यैव संप्रथितत्वात्तन्मध्ये प्राथमिकप्रतीपभेदत्रितयस्येत्यर्थः । उपमायाम् । तथा चतुर्थस्य अत्रोतक्रमानुसारेणैव चतुर्थस्य प्रतीपप्रभेदस्येत्यार्थिकम् । आक्षेपे व्यतिरेके तद्वत् अन्तिमस्य पञ्चमप्रतीपप्रभेदस्येत्यर्थः । अन्तर्भावेति । अन्तर्भावसाधनार्थं युक्तिप्रपञ्चनादिति हेतोः रसगङ्गाधरे ग्रन्थे तु अत्र प्रतीपपञ्चकमध्ये किंचिदपि प्रतीपभेद