________________
सरसामोद व्याख्यासहितम् ।
प्रातिकूल्यं प्रतीपत्वमुपमानोपमेययोः ।
पञ्चधा तन्मतं प्राचां तत्राद्यं स्याद्विपर्यये ॥ ८८ ॥ राधे त्वदास्यवच्चन्द्रो द्वितीयं तूपमामके । धन्यत्वध्वस्तये वर्ण्याधिक्यवर्णनमिष्यते ॥ ८९ ॥ विलसत्यङ्गनापाङ्गेऽनङ्ग ते क्क कलम्बकाः । तृतीयमुपमेयस्याधिक्यध्वस्त्यै परादरः ॥ ९० ॥
कौस्तुभरत्नम् ८ ]
३९३
प्राक् । सामान्येन निरूपितस्यार्थस्य सुखप्रतिपत्तये तदेकदेशं निरूप्य तयोरवयवावयविभाव उच्यमान उदाहरणम् । अर्थान्तरन्यासवारणायोच्यमान इतीत्यादिना लक्षणमुपपाद्य उदाहरति-- ' अमितगुणोऽपि पदार्थों दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव' इत्यादिनोक्त्वा । यथावा - ' अतिमात्र बलेषु चापलं विदधानः कुमतिर्विनश्यति । त्रिपुरद्विषि वीरतां वहन्नवलिप्तः कुसुमायुधो यथा इति ॥ ८७॥ एवमुदाहरणालंकारमुपपाद्य तत्र प्राचामसंमतत्वेऽपि सयुक्तिकत्वेन स्मृतं प्राचां संमतमपि नव्यमते युक्तत्य सहत्वादुपमादेः पृथग्गणनायोग्यं पञ्चप्रकारं प्रतीपालंकारं तथैव विवक्षुस्तत्सामान्यमादौ लक्षयति - प्रातिकूल्यमित्यर्धेन -उपमानेति । प्रागुदाहृतश्रुत्यादिप्रसिद्धयोरित्यार्थिकं प्रातिकूल्यमेव परस्परप्रतिस्पर्धा - सूचकवर्णनजन्यज्ञान विषयत्वमेव प्रतीपत्वं प्रतीपालंकारत्वमित्यर्थः । अथास्य पञ्चप्रकारकत्वं प्रतिजानीते -- पञ्चधा तदिति । प्राचां मम्मटभट्टादीनामित्यर्थः । तत्र प्रथमं लक्षयति—तत्रेति । उपमेत्याद्यत्रानुकृष्य योज्यम् । एवं चोपमानोपमेयत्वेन प्रसिद्धयोश्चन्द्रमुख योर्विपर्यये वैपरीत्येन विन्यासे सति आद्यं प्रथमं प्रतीपप्रकारस्वरूपं स्यादिति संबन्धः ॥ ८८ ॥ तदुदाहरति-राध इति । पादेनैव । यथावा कुवलयानन्दे - 'यत्त्वन्नेत्र समानकान्ति सलिले ममं तदिन्दीवरं मेघैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गतास्त्वत्सादृश्य विनोदमात्रमपि मे दैवेन न क्षम्यते' इति । द्वितीयं लक्षयति त्रिपाद्या - द्वितीयं त्विति । तुशब्दः पूर्ववैलक्षण्यार्थः । उपमानके चन्द्रादावुपमान एवेत्यर्थः । धन्यत्वेति । मदीयोपमा कामिन्याननायापि प्रेक्षावद्भिरपि प्रदीयत इत्यहमेव धन्योऽस्मीति गर्वखव करणार्थमित्यर्थः । वर्ण्यति । वर्ण्यस्योपमेयस्य यदाधिक्यं उपमानतोप्यौत्कट्यं तद्वर्णनमित्यर्थः । एवंचोपमानावलेप विलोपप्रयोजकोपमेयोत्कर्ष प्रकाशनविषयत्वं द्वितीयप्रतीपत्वमिति फलति ॥ ८९ ॥ तदुदाहरति - विलसतीति । 'कलम्बमार्गण - शराः' इत्यमरः । यथावा काव्यप्रकाशे - ' अहमेव गुरुः सुदारुणानामिति हालाहल तात मास्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम्' इति । तृतीयं लक्षयति - तृतीयमित्यर्धेनैव । परमुपमानम् ॥ ९० ॥