________________
३९२ साहित्यसारम् ।
[उत्तराधे सुखेन प्रतिपत्त्यर्थ सामान्योक्तस्य वस्तुनः । एकदेशं निरूप्यांशांशितोदाहरणं मतम् ॥ ८५ ॥ कठिनोऽपि सुवंश्यश्चेद्वीरहस्ते गुणी नतः। चापस्यम्बका श्रीमद्रघुनाथकरे यथा ॥ ८६ ॥ संमतोऽयं तु न प्राचामुपमान्तर्धिमिच्छताम् ।
रसगङ्गाधरे किंतु नव्यैः सूक्ष्मदृशोदितः॥ ८७॥ मुदाहरणालंकारं लक्षयति-सुखेनेति । सामान्येति । सामान्येन सामान्यांशेन उक्तं प्रतिपादितं तस्येत्यर्थः । एतादृशस्य वस्तुनः पदार्थस्य सुखेनानायासेन प्रतिपत्त्यर्थे श्रोतुः प्रबोधार्थम् । एकदेशं विशेषांशं निरूप्य प्रतिबोध्य । -अंशेति । अवयवावयविभावनिरूपणविषयः यत्तदुदाहरणं एतन्नामकोऽलंकारो भवतीत्यन्वयः । एवंच सामान्यांश निरूपितपदार्थविषयकानायासप्रमाप्रयोजकतदेकदेशोद्देशपूर्वकतदुभयावयवावयविभाववचनविषयत्वमुदाहरणत्वमिति फलितम् । अत्र वचनपदेनार्थान्तरन्यासव्युदासः । तत्र हीवयथानिदर्शनदृष्टान्तादिशब्दरूपाणामुदाहरणबोधकवचनानामभावात् ॥ ८५ ॥ तमुदाहरतिकठिनोऽपीति । अत्र चेत्पदं देहलीदीपन्यायेनोभयत्राप्यन्वेति । भवतीति शेषः । तथाचात्र पूर्वार्धे कठिनस्यापि पदार्थस्य सुवंश्यत्वपूर्वकं काठिन्यशालित्वनैयत्यमुद्दिश्य दैवाद्वीरकरगतत्वे गुणित्वनम्रत्वनैयत्यरूपसामान्यांशनिरूपणं यदकारि तद्विषयकानायासप्रमाप्रयोजकं तदेकदेशीभूतत्रयम्बकचापायुद्देशपूर्वक तदुभययोः सामान्यविशेषांशयोरवयवावय विभावप्रतिबोधकं वचनं यथाशब्दखद्विषयत्वं तज्जज्ञानविषयत्वमुत्तरार्धे स्पष्टमेवेति लक्षणसमन्वयः । एवंचात्र सामान्यमवयवी विशेषोऽवयव इति पर्यवसितं भवति । यथावा मदीयाद्वैतामृतमजर्याम्-'कुटिलाकुलोऽपि राग्यपि दर्शनतः क्षोभकोऽपि बद्धोऽपि । सीमन्तवजुश्चेन्मुक्काभूष्यो न किं भूयात्' इति । अत्रेवशब्दो यथालक्षणयैवोदाहरण. परस्तथा वच्छब्दोऽपि तदर्थविहिततद्धितत्वेन तद्वाचको लक्षणयैव तत्पर इति बोध्यम् । यद्यत्र श्लेषाक्षेपविशेषाख्यालंकारान्तरघटितत्वान्नेदं शुद्धोदाहरणमिति चेत्तर्हि यथावा मदीय एव नीतिशतपत्रे-गुणैरनेकैर्युक्तोऽपि दुष्टस्यैकस्य योगतः । वयं एव पुमान्भूयाद्भुजङ्गस्येव चन्दनः' इति ॥ ८६ ॥ नन्वयं प्राचीनाचार्यैः किमिति न संगृहीत इतिचेत्तेषामस्योपमान्तर्भूतत्वेनातिरिक्तत्वासंमतखादेवेत्साह-संमत इति। तदुक्तं रसगङ्गाधर एव–'प्राञ्चस्तु नायमलंकारोऽतिरिक्तः उपमयैव गतार्थत्वात् । नच सामान्यविशेषयोः सादृश्यानुल्लासात्कथमुपमेति वाच्यम् । निर्विशेषं न सामान्यमिति सामान्यस्य यत्किचिद्विशेषं विनाऽप्रकृतत्वात्तादृशविशेषमादाय विशेषान्तरस्य सादृश्योल्लासे बाधकाभावात् । इवादिभिरापाततो मुखे प्रतीयमानस्यापि सामान्य विशेषभावस्य परिणामे सादृश्य एव विश्रान्तरित्यप्याहुः' इति । एवं तर्हि बया कुतः संग्रथित इत्यत्राह-रसेति । तदुक्तं तत्रैव