________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
परस्परोपमाद्यन्यसहशोच्छित्तिरेव नः। गोदे न त्वत्समा कापि व्यक्तिः किंचित्तु जाह्नवी ॥ ८३॥ असमस्त्वन्यमात्रस्य सादृश्यस्य तिरस्क्रिया। त्वत्समः सदयः शंभो नासीन स्यान्न चास्त्यपि ॥ ८४ ॥
तत्प्रतिपादकवाक्यजन्यज्ञाननिरूपितविषयत्वं तदवच्छिन्नत्वमित्यर्थः । तामुदाहरति-त्रयीवेति । अत्रेदंशब्दप्रयोगात्रयी यथा श्रोत्रप्रत्यक्षा तथा ब्रह्मविद्याप्यपरोक्षैव प्रकृतवर्ष्यास्तीति द्योत्यते । यथावा ममैवात्रोदाहृता या उत्तरार्धे-'खजनमिथुनमिवेदं नयनयुगं नयनयुगमिवैतदपि इति। यत्तु रसगङ्गाधरकृ. द्भिदाहारि-'कौमुदीव भवती विभाति मे कातराक्षि भवतीव कौमुदी । अम्बुजेन तुलितं विलोचनं लोचनेन च तवाम्बुजं समम्' इति । अत्र लिङ्गवचनभेदादिदुष्टसादृश्यवारणाय सुन्दरमिति तैरेवैतदुदाहरणादव्यवहितपूर्व खकृतलक्षणनिविटसुन्दरपदकृत्यमुक्तम् । प्रकृते तु कौमुद्यामम्बुजपद विवक्षितानि कुमुदान्युत्पलानि वा सहस्राणि लोके प्रसिद्धान्येव तत्र जात्यभिप्रायेणैकवचनप्रयोगौचिरोऽपि कामिन्यां लोचनद्वयस्यैव सत्त्वातत्र विलोचनमित्यायेकवचनप्रयोगस्य विरुद्धमतिकृत्त्वं केन पराकरणीयमिति न विद्मः ॥ ८२ ॥ एवमुपमेयोपमा निरूप्य तत्प्रत्युदाहरणस्मृतां परस्परोपमां लक्षयति-परस्परेति । नः अस्मदादीन् श्रोतृन्प्रति । द्वीति । द्वयोरुपमानोपमेययोर्यः अन्य इतरः सदृशः संवर्ण्यसाधर्म्यवान् तस्य उच्छित्तिनिराकृतिरित्यर्थः । सैव परस्परोपमा भवतीत्यन्वयः । उपमानोपमेये. तरवर्ण्यसाधर्म्यनिराकरणवर्णनमात्रविषयत्वमिति तल्लक्षणं फलितम् । तामुदाहरति-गोद इति । यथावा रसगङ्गाधर एवार्थवाक्यभेद उपमे. योपमोदाहरण एव शाब्दी परस्परोपमा पर्यवस्यति । 'अभिरामतासदनमम्बुजानने नयनद्वयं जनमनोहरं तव । इयति प्रपञ्चविषयेऽपि वैधसे तुलनामुदञ्चति परस्परात्मना' इति । यथावा मदीयाद्वैतामृतमजर्याम्-'नहि राधे त्वत्तुल्या रम्या भूतेऽपि वर्तमानेपि । भाविन्यपि प्रपञ्चे तथापि किंचित्समाम्बुजिनी' इति । अत्रोदाहरणत्रयेऽपि तृतीयसदृशव्यच्छित्तिरेवेति लक्षणसंगतिः ॥ ८३ ॥अथैतत्प्रसङ्गस्मृतानन्वयध्वनितासमालंकारं लक्षयति-असमस्त्विति । तुशब्दः पूर्ववैलक्षण्यार्थः। अन्येति। यावदन्यदित्यन्यमानं तस्येत्यर्थः । खेतरयावत्पदार्थसंबन्धिन इति यावत् । सादृश्यस्य साधर्म्यस्य तिरस्क्रिया निराकृतिरित्यर्थः । एवंच यावत्खेतरानुयोगिकखप्रतियोगिकसाधर्म्यनिराकरणवर्णनविषयत्वमसमालंकारत्वमिति सिद्धम् । यथावा रसगङ्गाधरे-'पूर्णमसुरै रसातलममरैः खर्गो वसुन्धरा च नरैः । रघुवंशवीरतुलना तथापि खलु जगति निरवकाशैव' इति । मदुदाहरणे ह्युपमाननिषेध इह तूपमानिषेध इति विशेषः ॥ ८४ ॥ एवमसमालंकारनिरूपणसंस्मृतसामान्य विशेषभावनिबन्धन