SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ ३९० साहित्यसारम् । [ उत्तरार्धे उपमेयोपमान्योन्यभिन्नसादृश्यभेदि तत् ।। प्रयीव ब्रह्मविद्येयं ब्रह्मविद्येव च त्रयी ॥ ८२॥ कैकमात्रविषयकोपमानोपमेयभावसादृश्यमनन्वय इति तदीयलक्षणपर्यवसितिः । अन्न 'नखकिरणपरम्पराभिरामं किमपि पदाम्बुरुहद्वयं मुरारेः । अभिनवसुरदीर्घिकाप्रवाहप्रकरपरीतमिव स्फुटं चकाशे' इति रसगङ्गाधरोक्त पद्य-क्षीरोदमथनकालिकपयःकणाक्रान्तमवतु विष्णुवपुः । भाविदधिभाण्डभङ्गजदधिपृषदुपलिप्यमानमिव' इति । मदीयाद्वैतामृतमजर्या आर्यायां च क्रमात्कल्पितयथार्थभविष्यत्कालावच्छेदेन संपद्यमानधर्मविशेषवशादेकमेव हरिशरीरमुपमानोपमेयभावेन वर्ण्यत इति तत्रोभयत्राप्युत्प्रेक्षाविशेषघटितेऽतिप्रसङ्गभङ्गाय फलकान्तम् । तत्र द्वितीयसादृश्यव्यवच्छेदाभावात् तावन्मात्रोकावेतद्यङ्गयेऽग्रतो वक्ष्यमाणे असमालंकारे वर्ध्यानौपम्यैकफलकेऽतिव्याप्तिव्युदस्तयेऽवशिष्टमित्याकूतम् । तमुदाहरतिश्रीति । अत्र शक्तिः साधारणो धर्मः। शिष्टं तु स्पष्टमेव ॥८१॥ एवं द्वितीयसा. दृश्यव्यवच्छेदकत्वाद्यवच्छिन्नानन्वयस्मारिततृतीयसादृश्यव्यवच्छेदकत्वाद्यवच्छिन्नोपमेयोपमां लक्षयति-उपमेयेति । अन्योन्याभ्यां परस्पराभ्यां भिन्नस्तृतीयो यः पदार्थस्तनिष्ठं यत्सादृश्यं तद्भिनत्ति व्यवच्छिनत्तीति तथेत्यर्थः । एतादृशं यत् तत् प्राक्कनपद्योकमुपमादिकं उपमेयोपमा भवतीत्यर्थः । एवंच तृतीयसदृशव्यवच्छे. दकत्वे सति परस्परसादृश्यविषयकसुन्दरवर्णन विषयतावच्छिन्नमुपमेयोपमेति लक्षणं पर्यवस्यति । अत्र रसगङ्गाधरप्रत्युदाहरणे परस्परोपमाख्ये 'तबिदिव तन्वी भवती भवतीवेयं तडिल्लता गौरी' इत्यत्र । तथा मदीयाद्वैतामृतमजर्या आर्यायाः फू वार्धे राधे शरदिव विमला त्वमसि त्वमिवास्ति शरदपीन्दुमुखी' इत्यत्र चातिव्याप्तिवारणाय सत्यन्तम् । तत्र परस्परसादृश्यविषयसुन्दरवर्णनविषयतावच्छिन्नत्वे. ऽपि तृतीयसदृशव्यवच्छेदकत्वाभावात् । तथाहि प्रथमे एकेन तावद्रूपेण धर्मेण तडित्प्रतियोगिके कामिन्यनुयोगिके सादृश्ये वर्णिते तेनैव धर्मेण कामिनीप्रतियो. गिकस्य तडिदनुयोगिकस्य सादृश्यस्यार्थिकत्वेऽपि न गौरिमधर्मेण सिद्धिरिति तदर्थ द्वितीयपादसार्थक्यान तृतीयसदृशव्यवच्छेदफलकत्वम् । एवं द्वितीयेऽपि वैमल्यधर्मेण राधानुयोगिकस्य शरत्प्रतियोगिकस्य सादृश्यस्य वर्णनात्तेनैवे धर्मेण राधाप्रतियो. गिकस्य शरदनुयोगिकस्य सादृश्यस्याप्यर्थसिद्धत्वेपीन्दुमुखीत्वधर्मेण न सादृश्यसिद्धिरिति तदर्थे त्वमिवेत्यादेः सार्थक्यान तृतीयसदृशव्यवच्छेदफलकत्वमिति । एवं 'सशी तव तन्वि निर्मिता विधिना नेति समस्तसंमतम् । अथ चेनिपुणं विभाव्यते मतिमारोहति कौमुदी मनाक्' इति । 'नहि राधे त्वत्तुल्या रमणी भूतेऽपि वर्तमानेऽपि । भाविन्यपि प्रपञ्चे तथापि किंचित्समाम्बुजिनी' इति च निरुतप्रन्ध. द्वय एव क्रमातृतीयसदृशव्यवच्छेदकत्वेऽपि परस्परसादृश्यविषयकवर्णनाभावात्तत्रातिव्याप्तिव्यावृत्तये परस्परेत्यादि परस्परसादृश्यविषयकं यत्सुन्दरं लिङ्गवचनभेदादिप्रागुक्तालंकारसामान्य विशेषदोषरहितं एतादृशं यद्वर्णनं तस्य या विषयता
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy