________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
शब्दैकगोचरो योऽर्थो नोपमानोपमेययोः। खलाः सदैव कुटिलाः केशा इव लसदृशाम् ॥ ७७ ॥ एकाऽवाच्योपमा पूर्णा षड्लुप्तैकोनविंशतिः। दैक्षित्येका कल्पितैकेत्यष्टाविंशतिधास्त्यसौ ॥ ७८ ॥ पञ्चोपस्कर्तृता भेदैः सा भवत्खाब्धिभूमिता। तथा नवविधैर्धमभिन्ना सा खर्तुग्धरा ॥ ७९ ॥ एवमन्यैश्च तद्भदै रसगङ्गाधरोदितैः। कथनानन्त्यमत्र स्यादुपमायाः प्रतिश्रुतम् ॥ ८॥ अनन्वयोऽन्यसादृश्यव्यवच्छेद्युपमादिकम्।
श्रीगुरो त्वत्समः शक्त्या त्वमेव द्वैत ईक्ष्यसे ॥ ८१॥ धर्म लक्षयति-शब्दैकेति । तमुदाहरति-खला इति । अत्र खलकेश. योः कौटिल्यरूप एकः साधारणो धर्मो नास्त्येव किंतु खलेऽपकारित्वं केशे वक्रत्वमिति तथात्वं बोध्यम् । यथावा मदीयनीतिशतपत्रे-'तारुण्यारोपितगुणे सुन्दरीभ्रूशरासने । नम्रत्वमेव संपाय जगज्जयति मन्मथः' इति ॥ ७७ ॥ एवमवाच्योपमामारभ्य कल्पितोपमान्तं सामान्यत उपमाभेदानां संख्यामथोपस्कर्तृत्वभेदेन तत्संख्यां तथा तत्साधारणधर्मभेदेनापि तत्संख्यां निरूप्य तद्वद्वन्थान्तरस्थतद्भेदैस्तस्याः प्राक्प्रतिज्ञातमानन्त्यमेव सिद्धमित्यभिधाय तत्प्रकरणोपसंहारं सूचयति-एकेत्यादित्रिभिः । षद् षोढा दैक्षिती कुवलयानन्दे श्रीमदप्पय्यदीक्षितपरिगणिताष्टविधलुप्तोपमानां मध्येऽत्रोक्ततद्भेदानन्तर्भूतत्वेनावशिष्टेत्यर्थः । असौ सामान्यत उपमा ॥ ७० ॥ पञ्चेति । पञ्चसंख्याकाः ये उपस्कर्तृतायाः रसाद्युपस्कारकतायाः भेदास्तैरित्यर्थः । गुणितेत्यार्थिकम् । खेति । 'अङ्कानां वा. मतो गतिः' इति वचनात् चत्वारिंशदुत्तरैकशत १४० संख्याकेत्यर्थः । खत्विति षष्टयुत्तरद्वादशशत १२६० संख्याकेत्यर्थः ॥ ७९ ॥ एवमन्यैश्चेति । रसेति। बिम्बादिभावापन्नावसितानुगामिक्या यथा-'सिन्दूरारुणवपुषो देवस्य रदाकुरो गणाधिपतेः । संध्याशोणाम्बरगतनवेन्दुलेखायितः पातु' । तत्रैवानुगामिध. र्मान्तर्गतहेवादिभावापनबिम्बादिभावा यथा-'रूपवत्यपि च क्रूरा कामिनी दुःखदायिनी । अन्तः काटवसंपूर्णा सुपक्केवेन्द्रवारुणी' । तत्रैव च लक्ष्यताया यथा'सर्प इव शान्तमूर्तिः श्वेवायं मानपरिपूर्णः । क्षीब इव सावधानो मर्कट इव निष्क्रियो नितराम्' इति ॥ ८०॥ एवमुपमाप्रकरणं परिसमाप्य तस्याः सुन्दरद्वितीयसादृश्यवर्णनविषयत्वेन प्रसङ्गसंगत्या स्मारितमेकमात्रसुन्दरसादृश्यवर्णनविषयमनन्वयं लक्षयति-अनन्वय इति । अन्येनोपमानेन सह अन्यस्मिन्वोपमाने यत्सादृश्यमुपमाप्रतीपयोहसीव कृष्ण ते कीर्तिस्त्वल्लोचनसमं पद्ममिति च क्रमात्प्रतीयमानं साधर्म्यं तद्यवच्छिनत्ति व्यावर्तयतीत्येतादृशं यदुपमादिकमेकस्यैवोपमानोपमेयभावेन साधय सोऽनन्वय इत्यन्वयः । एवंच द्वितीयसादृश्यव्यवच्छेदफल