________________
साहित्यसारम् ।
[उत्तरार्धे राकेशो ज्योत्स्नयेवायं भाति कृष्णोऽपि राधया। प्रसन्नोऽभिसरन्त्यान्दो यान्त्यैव तडिता ध्वनन् ॥ ७४॥ बिम्बादित्वं विना वस्तु प्रतिवस्तुत्वभाग्यथा। सतां निर्दूषणं चित्तं विभात्यमलमम्ब्विव ॥ ७५॥ असन्नेवात्र यो धर्मः स तूपचरितो मतः।
संसर्गो मास्तु दुष्टानां वज्रकाठिन्यचेतसाम् ॥ ७६ ॥ त्वित्युत्तरश्लोकाद्यपादं गृहीत्वैव योज्यः ॥ ७३ ॥ भातीत्यादिध्वनन्नित्यन्तं कृष्णोऽपि अभिसरन्या राधया प्रसन्नः सन् यान्या प्राप्तया तडिता विद्युता ध्वनन्मन्दं मन्दं गभीरतरध्वनि कुर्वन्नित्यर्थः । एतादृशः अब्द इव घन इव भातीति संबन्धः । अत्र विशेषणयोः प्रसादध्वननयोर्विशेष्ययोरभिसरणयानयोश्च वस्तुप्रतिव. स्तुभावेनोभयतः करम्बितोऽयं कृष्णाब्दयोर्बिम्बप्रतिबिम्बभाव इति भावः। ननु प्रसादध्वननयोः क्रमात्कृष्णाब्दविशेषणयोः प्रसादशब्दितहर्षेऽपि गभीरमन्दतर. ध्वनिदर्शनादेकार्थकत्वेन पर्यायतया वस्तुप्रतिवस्तुभावेऽपि यानाभिसरणयोस्तडि. द्राधाख्यविशेष्यप्रतियोगिकविशेषणत्वस्यैव स्पष्टत्वात्कथं विशेष्यत्वमिति चेत्सत्यम् । शुक्लां गामानयेत्यादौ व्यावर्त्यव्यावर्तकभावस्थले धर्मस्य विशेषणत्वे प्राधान्येन युक्तेऽप्ययं ब्राह्मणो विद्वानस्तीत्युद्देश्य विधेयभावस्थले विधेयस्यैव धर्मस्यापि प्राधान्येन विशेष्यत्वाद्धर्मिणोऽप्युद्देश्यत्वेन गौणतया विशेषणत्वाचेति रहस्यम् । यथावा रसगङ्गाधरे क्रमेणोदाहरणे-'आलिङ्गितो जलधिकन्यकया सलीलं लमः प्रियङ्गुलतयेव तरुस्तमाल: । देहावसानसमये हृदये मदीये देवश्चकास्तु भगवानरविन्दनाभः' इति । 'दशाननेन दृप्तेन नीयमाना बभौ सती । द्विरदेन मदान्धेन कृष्यमाणेव पद्मिनी' इति च ॥ ७४ ॥ एवं बिम्बप्रतिबिम्बभावापन्नस्य साधारणधर्मस्य वस्तुप्रतिवस्तुभाववैशिष्टयेन भेदत्रयमुपपायेदानीं तदनापन्नस्य तस्य भेदत्रयं विवक्षुरादौ वस्तुप्रतिवस्तुभावैकरूपं साधारणधर्ममुद्दिश्य लक्षयति-बिम्बादित्वमिति। अत्र निर्दूषणत्वामलत्वयोरथैक्येऽपि पर्यायपदेनोक्तत्वाद्वस्तुप्रतिवस्तुभावः । यथावा रघुवंशे-'क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवारराज सा। पुराणपत्रापगमादनन्तरं लव संनद्धमनोज्ञपल्लवा' इति । इह प्रची. यमानावयवत्वसन्नद्धमनोज्ञपल्लवत्वयोः शक्याथै क्याभावेऽपि पर्यवसितपरिपुष्टत्वरूपाथै क्यात्तथात्वं बोध्यम् ॥ ७५ ॥ अथ क्रमप्राप्तमुपचरितं साधारणधर्म लक्षयति-असन्नेवेति । तमुदाहरति-संसर्ग इति । अत्र चेतसि काठिन्यं दृढ. तमावयवत्वरूपो धर्मः । सतु नास्त्येवेति लक्षणसंगतिः । यथावा प्राचाम्'पुरुषाः प्रस्तरहृदयाः प्रस्तरहृदयापि कामिनी भवति । इति किं पृच्छख कुचौ मददये वसत ईदृशी रीतिः' इति। इह पाषाणप्रस्तरेत्याद्यमरात्प्रस्तरशब्दितपाषाणत्वं हृदयपदवाच्येऽन्तःकरणे नास्त्येवेति वा तद्वत्काठिन्यमपि तथैवेति प्राग्वत् । परंतु तद्यङ्ग्यमेवेति शेषः ॥ ७६ ॥ एवं क्रमप्राप्तमेव केवलशब्दात्मकं साधारणा