________________
३८७
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
विशेषणं विना बिम्बादित्ववाशुद्ध ईरितः । बाला नीलाम्बरास्येव रजनीवेन्दुना बभौ ॥ ७० ॥ विशेषणैकयोर्वस्तुप्रतिवस्तुत्वयोगतः। धर्मः करम्बितो बिम्बप्रतिबिम्बत्ववान्यथा ॥ ७१ ॥ खेलत्खञ्जनयुग्माढ्यं शरदनमिवाननम् । कदा द्रक्ष्यामि कान्तायाः संचलल्लोचनद्वयम् ॥७२॥ विशेष्यमात्रयोरेष उभयोरपि च क्रमात् ।
शिवोऽवतु जगद्गौर्यालिङ्गितः परिरम्भितः ॥ ७३॥ पकारित्वं सार्वाशिकपरप्राणहरणप्रवीणत्वं निसर्गकुटिलत्वं बहिःशीतलवमृदुत्वपूर्व कान्तरतिदाहकत्वं चेति चत्वारः साधारणधर्माः क्रमाद्यङ्गथा एवेति भावः ॥६९॥ तद्वदुकानुगतधर्मान्तर्गतप्राप्तबिम्बप्रतिबिम्बभावस्य शुद्धं भेदं लक्षयति-विशेषणमिति । आदिना प्रतिबिम्बत्वम् । तमुदाहरति-बालेति । अत्र नीलेति । नीलं अम्बरमाकाशं ययेति व्युत्पत्त्या रजनीविशेषणमपीदमिति नेदं शुद्धो. दाहरणमिति विभावने तु बाला ममेयमास्येनेति विन्यसनीयम् । वस्तुतस्तु नीलेत्यादितृतीयान्तं नीलाम्बरपरिवृतं यदास्यं तेनेत्येकमेव पदं तेन न कोऽपि दोषः । तत्रैवेन्दुसाम्यात् । यथावा माघे–'अविज्ञातप्रबन्धस्य वचो वाचस्पतेर. पि। व्रजत्यफलतामाशु नयगृह इवेहितम्' इति ॥ ७० ॥ अथ वस्तुप्रतिवस्तुभावविशिष्टोऽपि बिम्बप्रतिबिम्बभावापन्नः साधारणधर्मो विशेषणमात्रविशेष्यमात्रोभयवै. शिष्टयभेदात्प्रावित्रविध उपन्यस्तस्तत्राद्यं लक्षयति-विशेषणैकयोरिति । विशेषणमात्रयोरित्यर्थः । वस्त्विति । पर्यायशब्देनाभिहितत्वादित्यर्थः । करम्बितः विशिष्टः ॥ ७१ ॥ तमुदाहरति-खेलदिति । अत्र खेलत्संचलदिति विशेषणमात्रयोरेव एकार्थकत्वेन पर्यायपदाभिहिततया वस्तुप्रतिवस्तुभावात्खननलोचनद्वन्द्वयोः शरदब्जाननयोश्च बिम्बप्रतिबिम्बभावाच लक्षणसंगतिः । यथावा रसगगाधरे-'चलगृङ्गमिवाम्भोजमधीरनयनं मुखम् । तदीयं यदि दृश्येत कामः ऋद्धो. ऽस्तु किं ततः' इति ॥७२॥ एवं विशेषणमात्रयोर्वस्तुप्रतिवस्तुभावेन विशिष्टं बिम्ब प्रतिबिम्बभावापन्नं साधारणधर्ममुदाहृत्य विशेष्यमात्रयोर्विशिष्टयोश्च वस्तुप्रतिवस्तुभावविशिष्टं तं समुद्दिश्यार्धेनैवानुक्रमात्रिपाद्या त्रिपाद्या समुदाहरति-विशेष्येत्यादिद्वाभ्याम्। विशेष्यमात्रयोर्वस्तुप्रतिवस्तुभावविशिष्टबिम्बादिभावापन्नसाधारणधर्मः । एषः प्रथमत्रिपाद्यानुपदं वक्ष्यमाण इत्यर्थः । उभयोविशिष्टयोः वस्त्वित्यादिधर्मान्तं प्राग्वत् । द्वितीयत्रिपाद्या वक्ष्यमाण इत्यार्थिकं शिव इत्यादि अयमिसन्तम् । अत्रालिङ्गितलपरिरम्भितत्वयोर्वस्तुप्रतिवस्तुभावात्तद्विशिष्टयोगौरीज्योत्वयोश्च बिम्बप्रतिबिम्बभावः स्फुट एवेति लक्षणसमन्वयः । वाक्यान्वयस्तु अयं ध्यातत्वेन साक्षिप्रत्यक्षः । गौर्या आलिङ्गितः शिवः ज्योत्स्नया कौमुद्या परिरम्भितः आश्लिष्टः राकेशइव वासन्तिकपूर्णचन्द्रइव जगद्विश्वं अवतु संतापतः संरक्ष