________________
३८६ साहित्यसारम् ।
[ उत्तरार्धे विशेषणविशेष्योभययुग्रन्तिमस्त्रिधा। सोन्त्योपि त्रिविधो वस्तुप्रतिवस्तुत्वभाक्तथा ॥६६॥ तत्त्वं पर्यायशब्देनाभिहितत्वमुदीरितम् । औपचारिक एवान्यः परः शब्दैकगोचरः ॥ ६७॥ उक्तोऽनुगामी धर्मोऽयमेक एवोभयत्र यः। ब्रह्मबोध इवानन्दजनकः श्रीगुरुर्मम ॥ ६८॥ व्यञ्जनामात्रगम्यो यो धर्मः स व्यक्त उच्यते ।
अहिनिलयनीवेयं तनुर्मम विभात्यलम् ॥ ६९॥ कीदृक् संमतम् । प्रसिद्धबिम्बप्रतिबिम्बभावस्य प्रीवादर्शस्थमुखोभयनिष्ठस्य 'किं पद्यस्य रुचिं न हन्ति नयनानन्दं विधत्ते न किं वृद्धि वा झषकेतनस्य कुरुते नालोकमात्रेण किम् । वक्रेन्दौ तव सत्ययं यदपरः शीतांशुरुज्जृम्भते दर्पः स्यादमृतेन चेदिह तदप्यस्त्येव बिम्बाधरे' इत्यमृतीयरसास्वादबिम्बाधरीयरसाखादयोरालंकारिकसंमते बिम्बप्रतिबिम्बभावे सुतरामसंभवादित्यतस्तद्युत्पादयति-तत्त्वं त्वि. ति । तुशब्दः प्रोक्तशङ्काशामकः । तत्त्वं बिम्बप्रतिबिम्बत्वम् । रूपेति । आदिनोदाहृतरसादेर्ग्रहः । मतम् । आलंकारिक संमतमित्यर्थः। एवमुक्ताख्यधर्मस्य द्वैविध्यं विधाय तत्र बिम्बप्रतिबिम्बभावापन्नस्य तस्य पुनः शुद्धविशिष्टत्वभेदेन द्वैविध्यं विधत्ते-आद्य इति ॥ ६५ ॥ तत्रापि विशिष्टस्यान्तिमस्य त्रैविध्यं विधत्ते-विशेषणेति । विशेषणे च विशेष्ये च उभये विशिष्टे च तेषां यानि युग्मानि द्वन्द्वानि तैरित्यर्थः। एवं बिम्बप्रतिबिम्बभावमनागतस्योकाख्यधर्मभेदस्यापि वस्तुप्रतिवस्तुत्वभाक्खादिना त्रैविध्यमभिधत्ते-सोऽन्त्योऽपीति॥६६॥तल्लक्षणं संक्षिपति-तत्त्वमिति । तत्त्वं बिम्बप्रतिबिम्बभावानापन्नोक्ताख्यवस्तुप्रतिवस्तु. त्वभावात्मविशेषणकयुग्मत्वम् । पर्यायेत्यादि स्पष्टम् । अन्यः विशेष्यमानयमात्मकः परः विशिष्टद्वयात्मकश्च तद्भेद इत्यर्थः । बिम्बप्रतिभावमनागतस्य उकाख्यधर्मभेदस्य । तथाशब्दसमुच्चितमवशिष्टभेदद्वयं स्पष्टयति-औपेति ॥ ६ ॥ अथैवं प्रतिपादितं साधारणधर्म प्रत्येकमुद्दिश्य संलक्ष्य चोदाहरति-उक्त इति । ब्र. ह्मेति । अत्रानन्दजनकत्वं साधारणो धर्मः स तूपमाने ब्रह्मबोधे तथोपमेये श्रीगुरावप्यन्यूनानतिरिक्त एवेति लक्षणसमन्वयः। यथावा मदीये नीतिशतपत्रे-'गुणैरनेकैर्युकोऽपि दुष्टस्यैकस्य योगतः । वयं एव पुमान्भूयाद्भुजंगस्येव चन्दनः' इति ॥६८ ॥ एवं क्रमप्राप्तं व्यकं तं लक्षयति-व्यञ्जनेति । तमुदाहरति-अ. हीति । अहेः सर्पस्य निर्वयनी निर्मुक्का त्वगित्यर्थः । तथाच श्रूयते-'तयथा. हिनिलयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेद शरीर शेते'इति बृहदारण्य. के । एवं चात्र शरीरे तादात्म्याध्यासवैधुयें साधारणधर्मो व्यजनैकगम्य इति त. त्वम् । यथावा मदीयाद्वैतामृतमजाम्-'सर्प इव भवति पिशुनस्तद्दष्ट्रेवास्य गूढ. वागस्ति ।तगतिरिवास्य रीतिस्तत्तनुरिव चास्य वै प्रकृतिः'इति । अत्र क्रमानिरर्थकपरा.