________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
असंभूतोपमानस्य वर्णनं कल्पितोपमा। कौङ्कुमस्तिलको भाले चन्द्रे भौम इव प्रिये ॥ ६२ ॥ अथास्या उपमेयं तु वर्ण्यमेवोच्यते बुधैः । वाचका अपि विज्ञेयाः शब्दाः साक्षाद्यथेववा ॥ ६३ ॥ धर्मः साधारणस्तद्वदुक्तव्यक्तभिदा द्विधा । उक्तोऽपि द्विविधो बिम्बप्रतिबिम्बत्वमागतः॥ ६४॥ नागतश्चेति तत्त्वं तु साम्यं रूपादिजं मतम् ।
आद्यः पुनर्द्विधा शुद्धविशिष्टत्वभिदा मतः ॥६५॥ खाङ्गिगम्' इति । अत्र सुनटवदिति वाच्यैवोपमा एष इत्यादिश्लोकशेषोक्तप्रार्थनारूपवस्तुनो रूपकोत्प्रेक्षादेश्वोपस्कर्वी ॥ ६१ ॥ एवमभूतोपमाख्यां कल्पितो. पमामपि लक्षयति-असंभूतेति । असंभूतमसंभावितम् । अयुक्तिसहमिति यावत् । एतादृशं यदुपमानं तस्येत्यर्थः । तामुदाहरति-कौङ्कुम इति । तवास्तीत्यार्थिकम् । 'तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोनोन स्त्रियां तु विशेषके' इति मेदिनी। अत्र चन्द्रमण्डलाधिकरणकभौमसत्वमसंभावितमेवेति लक्षणसंगतिः । यथावा प्राचाम्-'स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽलकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः' इति । यथावा माघे-'सितातपत्रव्यजनैरुपस्कृतः प्रसूनव(रभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ घनो यथाभेंडुपचापवैद्युतैः' इति ॥ ६२ ॥ नन्वेवमुपमेयलक्षणमपि किंचिद्वाच्यमेवेत्यतस्तदाह-अथेति। बुधैः 'वर्योपमानधर्माणाम्' इत्यादिवदद्भिः प्राचीनाचारित्यर्थः । एवंच निरूपणोपेक्षानहत्वावच्छिन्नपदार्थत्वमुपमेयत्वमिति फलितमिति तत्त्वम् । यथोपमेयं निरूपितमेवमस्या उपमायाः किं वाचकमित्यत्राह-वाचका अपी. ति । यथेति । यथाशब्दः इवशब्दः वाशब्दश्चैति शब्दा उपमायाः साक्षादव्यवधानेन शक्तिवृत्त्यैव वाचका अपि प्रतिबोधका अपि विज्ञेया इति योजना। 'ववायथातथेवैवं साम्ये' इत्यमरः। 'यथा प्रह्लादनाचन्द्रः प्रतापात्तपनो यथा । तथैव सोऽभूदन्वर्थों राजा प्रकृतिरञ्जनात्' इति रघुवंशे-'सुखयतितरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः । कुलभामिनीव विद्या जहाति नो जन्म जन्मापि' इति गोवर्धनसप्तशत्यपि । अत्र साक्षादित्युपलक्षणं परम्परासंबन्धेनोपमावाचकानां स. दृशसमसमानतुल्यतुलनादिसुबन्तशब्दानां वतिक्यङ्ग्यजादितद्धितप्रत्ययानामपि ॥६३॥ ननु भवत्वेवमुपमेयस्योपमावाचकानामपि प्रतिबोधनमथापि तत्साधा. रणधर्मः कतिविध इत्याशङ्कय समाधत्ते-धर्म इति । साधारण उपमानोपमेयोभयानुगत इत्यर्थः । उक्तः शक्तिलक्षणान्यतरवृत्तिप्रतिपादितः । व्यक्तो व्यन्जनावृत्तिमात्रगम्यस्तयोर्या भिज्दस्तयेत्यर्थः । एवं साधारणधर्मस्य द्वैविध्यं सामान्यतोऽभिधाय तत्रोक्ताख्यस्य प्रथमस्यापि द्वैविध्यं विधत्ते उक्तोऽपीत्यादिनाग्रिम. श्लोकगतेन नागतश्चेतीत्यन्तेन ॥६॥नागतश्चेति । ननु बिम्बप्रतिबिम्बत्वं प्रकृते