________________
३८४
साहित्यसारम् । - [उत्तरार्धे हरिणाक्षि स्मितेनेदं शरदिन्दूपमं मुखम् ।
पीयूषवचसो दानात्तन्वि किं तर्पयिष्यसि ॥ ६१ ॥ द्वत्पुत्रमित्रकलत्रादिषु ममत्वाध्यासः शरीरेहत्वाध्यासश्च तदनुयोगिविनश्वरत्वेन विनश्वर एवास्तीति सरलमेव । अत्राङ्गनापाझरङ्गवदित्युपमाया खोपमानतापन्नाङ्गनापाङ्गे शोणादिवर्णवत्त्वप्रसिद्धेस्तत्सादृश्येन निरुक्तसङ्गलक्षणे प्रपञ्चाध्यासे सत्वादित्रैगुण्यात्सूचित उपमालंकारे कारणत्वेनोपकारकत्वं स्पष्टमेवेति लक्षणसंगतिः । यथावा मदीये कृष्णलीलामृते-'प्रीतैकदा नन्दकुटुम्बिनी सा दासीषु कार्यान्तरयोजितासु । दध्युन्ममन्थ खयमेव गोपी बुद्धिर्टगाद्याखिव सर्वशास्त्रम्' इति । अत्र बुद्ध्युपमा द्वितीयपादद्योतितकाव्यलिङ्गालंकारस्य खामित्वसाम्येनोपस्कारिकेति तत्वम् । अथ क्रमप्राप्तां व्यङ्गयस्य वस्तुन उपस्कारिकामुपमामुदाहरति-मुर्खे. त्युत्तरार्धेनैव । अत्र प्रतिक्षणविनश्वरत्वात्संपत्तेस्त्याग एव श्रेयानिति द्योत्यमानवस्तुन उपस्की मूर्खमैत्रीवेत्युपमेत्याकूतम् । यथावा मदीयभागीरथीकथाचम्पू. प्रबन्धे-'नोरः कोरकितं दृशौ न वलितौ न भ्रूयुगं चानतं नास्यं व्याकुचितं वचो न सुरुचो वीचिप्रचाराञ्चितम् । मध्यो नाम्वरतां नितम्बयुगुलं नैवादितां नो गति. मद्गत्वं च जगाम यद्यपि तथाप्येषा तु विश्वाधिका' इति । इह कोरकाविव सदाकारत्वेन स्तनौ संजातौ यस्मिंस्तदिति धर्मवाचकोपमेयलुप्तोपमया विश्वाधिकेन रुद्रेणैव वरणीयेयं पार्वती कन्यका विश्वाधिकेति व्यङ्गयस्य वस्तुन उपस्कारिकेति सारस्यमिति दिक् ॥ ६० ॥ एवं क्रमागतां वाच्यस्यालंकारस्योपस्कारिकामप्युपमामुदाहरति-हरिणाक्षीति । अत्र हरिणस्याक्षिणी इव अक्षिणी नेत्रे यस्याः सा तथा तत्संबोधने हे प्रिय इत्यर्थः । एवं चानया वाच्ययैव धर्मवाचकोपमानलुप्तोपमयाऽलंकृत्या इदं तव मुखं स्मितेन शरदिन्दूपममिति वाच्यैवोपमोपस्क्रियते । चन्द्रइवाङ्काधिरोपितहरिणसत्वेन मुखे तत्साधर्म्यघटकहरिणावयव. सारीभूततनेत्रद्वयसदृशलोचनयुगुलस्य हरिणाक्षिपदेनैवोक्तत्वादिति तत्वम् । यथावाऽस्मदीये कृष्णलीलामृत एव-'चन्द्रानना ध्वान्तकचोडुभूषा संध्या कुसुम्भारुणचारुचेला । आकाश आदर्श इयं बभूव किं राधिकायाः प्रतिमैव रात्रिः' इति । अत्र चन्द्रेत्यादिचतुःसंख्योपमावाच्यैव वाच्यस्यैव रूपकपरिकरश्लेषोत्प्रेक्षाख्यालंकारचतुष्टयस्योपकारिका स्पष्टैव । अथ क्रमप्राप्तामेव वाच्यस्य वस्तुन उपस्कारिकामुपमामुदाहरति-पीयूषेत्युत्तरार्धेनैव । हे तन्वि, कृशाङ्गि प्रिये, त्वम् । पीयूषेति । पीयूषमिव अमृतमिव मधुरतरं यद्वचः प्रार्थनप्रत्युत्तरवाक्यं तस्य दानात्समर्पणादित्यर्थः । एवं चानया धर्मवाचकलुप्तोपमया वाच्ययैव मां तर्पयिष्यसि किमिति वाच्यमेव वस्तूपस्क्रियते । अमृतस्य हि परमतमतर्पकत्वप्रसिद्धेरित्याशयः । यथावास्मदीयएव गीतसीतापतौ–'शुद्धादर्शततिं पुरः सुनटवत्सं. स्थाप्य गौरीं महामायामेव तदग्रतः स्खविलसन्नृत्यं स्वयं वीक्षितुम् । विष्ण्वायैरभिपूजितः किमकरोत्साक्षाच्चिदात्मैव यः संध्याताण्डवमेष मां सुखयतु श्रीशंकरः