________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
३८३ उदाहरामि पञ्चापि सुखबुद्ध्यै क्रमात्स्फुटम् । चित्ररम्यमिदं दृश्यं पश्यन्नानामि किंचन ॥ ५९॥ सङ्गोऽयमङ्गनापाङ्गरङ्गवत्क्षणभङ्गुरः।
मूर्खमैत्रीव संपत्तिः प्रतिक्षणविनश्वरा ॥ ६०॥ इति तस्यैवात्र प्राधान्यमिति । वाच्यवस्तूपकारिका यथा-'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सुखे गिरः । नयने शिशिरीकरोति मे शरदिन्दुप्रतिमं मुखं तव' । अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका । वाच्यालंकारोपस्कारिका यथा-'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् । न मनागपि तन्वि शोभते बत रोषेण तथेदमाननम्' । अत्र वाच्यस्योपमालंकारस्योपमोपस्कारिकेति । अत्र पूर्वार्ध उपमाद्वयस्य सत्वादेकोपस्कार्यापरोपस्कारिकेति तत्त्वम् । एवंचैवमादिभेदैरानन्त्यमन्यथानुपपत्त्यैव स्यादिति दिक् ॥ ५८ ॥ ननु भवत्वेवमुपमायाः सामान्यतो रसायुपस्कारकत्वमथापि तदुदाहरणमन्तरा कथमल्पप्रज्ञैरवधार्यमिति व्याकुलधियमाश्वासयतिउदाहरामीत्यर्थेन । तत्र रसोपस्कारिकां तामुदाहरति-चित्ररम्यमित्यधेनैव । अहमिति शेषः । एतेनाहंकारेण सहात्मतादात्म्यस्य बाधितत्वं ध्वन्यते। इदं साक्षिप्रत्यक्षम् । दृश्यं अविद्याद्यनादिपञ्चककारणरूपमाकाशादितत्कार्यरूपं च द्वैतेन्द्रजालमित्यर्थः । चित्रेति । चित्रमिव रम्यमित्येतत् पश्यन् साक्ष्यात्मनानुभवन्नपीति रहस्यम् । किंच न तत्रत्वं तृणमारभ्य हिरण्यगर्भान्तवस्तुमध्ये किंचिदपि समुपभोग्यं वस्त्वित्यर्थः । न अश्नामि नैवोपभोगकर्मीकरोमीत्यन्वयः । अत्र चित्रभित्तिरिव मिथ्यामनोरममिति मैत्रायणीयश्रुतेर्मिथ्यात्वाध्यवसायानुसंधानवतो मम लोकदृष्टिदृष्टाप्रारब्धं जामदादौ सुखाद्यन्यतरसाक्षात्कारलक्षणो भोगः परमार्थतो नैव कोऽपि किमपि कदापि भवतीति भावः । इह द्वैतावलम्बी तन्मिथ्यात्वानुसंधानोद्दीपितस्तन्मूलीभूतोक्तश्रुतिस्मृतियुक्तिविषयकस्मृतिव्यभिचारी वास्तविकभोगाभावानुभावितश्च निदाख्यः स्थाय्येव शान्तरसाभिधःप्राधान्येन ध्वन्यते । तदु. पस्कारिकैव चित्रमिव रम्यमित्युपमेत्याशयः। यथावा मदीयाद्वैतामृतमजर्याम्-'रसभरितापि गतरसा चतुरतराप्यतुलमन्थरोत्थाने । विलसति मतिरेकान्ते शान्तस्येयं रतान्तकान्तेव' । अत्र रतान्तकान्तेवेत्युपमा 'तद्यथा प्रियया स्त्रिया संपरिष्वत्तो न बाह्यं किंचन वेद नान्तरमेवमेवायं प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम्' इति श्रुत्यनुगृहीतत्वादिनात्रत्यशान्तरसपरिपोषिकेति स्फुटमेव ॥ ५९॥ एवमेव क्रमप्राप्तामलंकारोपस्कारिकां तामुदाहरति-संगोऽयमिति । अयं साक्षिप्रत्यक्षः सङ्गः प्रपञ्चाध्यासः । अनङ्गनेति । अङ्गनायाः । 'विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना' इत्यमरात्तरुणीविशेषाया इत्यर्थः । यः अपाङ्गः नेत्रकोणः तस्य यः रङ्गः शोणशुक्लश्यामान्यतमवर्ण इत्यर्थः । तेन तुल्यं यथा स्यात्तथेति यावत् । क्षणेति । स यथाऽतिचञ्चलखभाववादनुपमक्षणविनश्वरस्त