________________
साहित्यसारम् । . [पूर्वार्ध तत्र लाक्षणिके शब्देऽपीश्वरेच्छास्त्यतोऽखिला। उच्छिद्येल्लक्षणातोऽत्र मीमांसकमतं मतम् ॥५॥ सा जातियुक्तव्यक्तौ स्याजातिमात्रे तथा क्रमात् । मतद्वये तथाप्यन्त्या युक्ता लाघवतोऽभिधा ॥६॥ किंच कार्यान्विते शक्तिमाहुः प्राभाकरा न तत् ।
युक्तं गौरवतः किंतु लाघवात्साऽन्वितैकगा ॥७॥ लक्षणैकमत्यमिति चेन । विभावने तु तस्य मदुक्तलक्षणमात्रपर्यवसन्नलात् । तथाहि नहीत्यादिग्रन्थेन वेदस्यानादित्वेनापौरुषेयवादुक्तेच्छारूपतात्पर्यस्य तत्रा. भाव इत्यवश्यं वक्तव्यं तेन तत्रार्थप्रतीतिजनने खत एव सामर्थ्यमित्यर्थसिद्धमेव । तदेवात्र मया पूर्वार्धे कथितमिति कुतो वैमत्यावकाशः । एवं तर्हि तृतीयचरणो व्यर्थ एवेति चेत् सत्यं, तथापि तस्य तत्परिष्कारार्थत्वेनोपयुक्तत्वात्सांगत्यमेव निरुक्तसामर्थ्य मे तु शब्द एव तिष्ठतीति तस्य शब्दनिष्ठधर्मविशेषत्वमप्यर्थादेव लब्धमिति सर्वमवदातम् । शब्देनार्थस्येत्युपलक्षणमर्थेन वाशब्दस्येत्यस्यापि । अत एवोक्तं रसगङ्गाधरे-शक्त्याख्योऽर्थस्य शब्दगतः शब्दस्यार्थगतो वा संबन्धविशेषोऽभिधेति ॥ ४ ॥ तदत्र मतद्वये किं श्रेय इति चेदन्त्यमेवेत्याहतत्रेति । मतद्वयमध्य इत्यर्थः । उपलक्षणमिदं मतान्तराणामपि । तानि च गौरवभियाऽत्रानुपन्यस्तान्यप्याकरतो ज्ञेयानि । नन्वाद्यमेव कुतो नाङ्गीक्रियत इति चेत्तत्र हेतुमाह-लाक्षणिक इत्यादिना। गङ्गायां घोष इत्यादौ शब्देऽपोत्यर्थः । अपिशब्देन लाक्षणिकभिन्नशब्द एवोक्तेच्छासत्ववादव्युदासः । ईश्वरस्य विभुलेन तदिच्छायाः सर्वत्र सखात्। दीधितिकृन्मते शब्दाश्रयीभूतस्याकाशस्येश्वरानतिरिक्तखेनतदिच्छाशब्दयोः सामानाधिकरण्यात्कार्यमानं प्रतीश्वरेच्छायाः साधारणकारणखाच लक्षणोच्छेदप्रसङ्ग इत्याशयः । निगमयति । अतइति । अत्र लोके वेदे च मतं निर्दोषव्यवहारघटकत्वेन प्रकृतालंकारशास्त्रेऽपि संमतमित्यर्थः ॥५॥ अस्त्वेवं शक्तिस्वरूपविवरणं परंतु किंविषयिणी सेत्याकाङ्क्षायां क्रमेण तद्विषयभेदं तार्किकादिमते प्रदर्य प्रकृते मीमांसकसंमतमेव तद्विषयमादरणीयतयोपपादयतिसेति । सा पूर्वोक्तलक्षणा शब्दशक्तिः जातियुक्तव्यक्तौ गोलविशष्टे गवि तथा जातिमात्रे गोत्व एव क्रमादनुक्रमेण मतद्वये तार्किकमते जातिविशिष्टव्यक्ती मीमांसकमते च जातावेव स्यादित्यन्वयः। तदुक्तं न्यायसिद्धान्तमञ्जर्याम् । तस्मात् गोत्वविशिष्ट एव शक्तिरिति मीमांसान्यायप्रकाशेऽपि । यच्च यस्मात्प्रतीयते तत्तस्य वाच्यं यथा गोशब्दस्य गोत्वमिति । एवं मतद्वयं निरूप्य तत्र लाघवान्मीमांसकमतं खादरणीयमित्याह-अन्त्येत्यादिना ॥ ६ ॥ प्रसङ्गात्प्राभाकरमतमुपन्यस्थति–किंचेति । कार्यान्विते गामानयेत्यादावानयनादिक्रियान्विते गवादावित्यर्थः। तत्खण्डनं प्रतिजानीते-नतदिति।तत्र हेतुमाह-गौरव इति। इति तर्हि व सेत्याकालायां सयुक्तिकं खसिद्धान्तं बोधयति-किंत्वित्यादिना। सा शब्द.