SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ऐरावतरत्नम् २] सरसामोदव्याख्यासहितम् । विधा वृत्तिभिदा शक्तिलक्षणाव्यञ्जनाह्वया । मुग्धमध्यप्रगल्भाख्यावस्थया स्त्रीव भाति वाक् ॥२॥ वोद्धव्योऽस्मात्पदादर्थोऽयमित्याद्याकारिकेशितुः । इच्छापि संकेताख्यात्र शक्तिरित्याहुरौहिकाः ॥३॥ अर्थप्रतीतिजनने स्वतः सामर्थ्यलक्षणम् ।। शब्देनार्थस्य संबन्धं शक्तिं मीमांसका जगुः ॥ ४॥ शृङ्गारो रसः । उपमालंकारः ॥ १॥ तत्र शक्त्याद्यपरनामकाभिधादिवृत्तिभेदात्रिविधः शब्द इत्याह-विधेति । शक्त्यादीनां लक्षणं खत्रैवाग्रे वक्ष्यते । तत्रा. करितयौवना मुग्धा, समानलज्जामदना मध्या, पतिमात्रकेलिकलापकोविदा प्रगल्भा, चेति रसमञ्जर्यामुक्तं यन्मुग्धादीनां लक्षणं तपमुग्धाद्यानामवस्था तयेत्यर्थः। अवस्थानां त्रैविध्येऽपि जात्यभिप्रायेणैकवचनम् । स्त्रीवत्र सा व्येव । तस्या एव लोकादौ स्वार्थप्रकाशनार्हत्वेन वागुपमावसंभवादिति । 'आख्याह्वे अभिधान च' इत्यमरः । शेष स्पष्टम् ॥ २ ॥ एवं शब्दस्य वृत्तिभेदात्रैविध्य प्रतिज्ञाय तत्र प्रथमोद्दिष्टत्वाच्छक्तिवृत्ति व्युत्पादयितुं मतभेदेन तस्या अनेकविधवात्प्रथम तार्किकमतेन तां लक्षयति-बोद्धव्य इति । इशितुः परमेश्वरस्य संकेताख्या सकेतनाम्नीत्यर्थः । अपिना तनिष्ठज्ञानकृत्योः संग्रहः । अत्र लोके वेदे च आहिकाः ऊहयन्तीयौहिकाः । तार्किका इत्यर्थः । तदुक्तं न्यायसिद्धान्तमञ्जर्याम् । स च संकेतोऽम्मात्पदादयमों बोद्धव्य इत्याकारिकेच्छा. हन्तैवं पामरादिसंकेतिता अपि शब्दा अभिधायकाः स्युरितिचंन । नहि संकेतमात्रमभिधा किं त्वीश्वरसंकेत इति ॥ ३ ॥ एवं तार्किकसंमतं शब्दशक्तिलक्षणमभिधायाथ मीमांसकमतां तां लक्षयति-अथेति । अर्थप्रतीतिजनने रामशब्दश्रवणोत्तरं दाशरथ्यात्मकपदार्थानुभवोत्पत्तावित्यर्थः । स्वतः स्वाभाव्येन सामर्थ्यलक्षणं सामर्थ्यशब्दितं व्युत्पन्नस्य स्वश्रवणमात्रेणवावश्यमर्थज्ञान जननदक्षलरूपमित्यर्थः । उक्तं हि संक्षेपशारीरके श्रीमत्सर्वज्ञात्ममुनीश्वरचरणैर्व्यवहारे भट्टनयानुसारेण–'व्युत्पन्नस्य हि वुद्धिजन्म सहसा वाक्यश्रुती दृश्यते' इति । एतादृशं शब्देन रामादिशब्देन सह अर्थस्य दाशरथ्याद्यर्थस्य संबन्धं बोथ्यबोधकतारूपमभिधेयाभिधायक भावात्मकं वा संबन्धमेव शक्तिं शक्तिशब्दाभिधेयं मीमांसकाः पूर्वमीमांसका भाटा इत्यर्थः। जगुः स्वस्वग्रन्थेषु प्रतिपादयामामुरित्यर्थः । तथा चोक्तं भाट्टरहस्ये-नहि 'अस्मात्पदादयमर्थो बोद्धव्यः' इत्याकार केच्छारूपं तात्पर्य वेदे संभवति । अतस्तत्रातिरिक्तः शब्दनिष्टो धर्मविशेष एव तात्पर्य भट्टमते वाच्य मिति । नच तात्पर्यस्यैव लक्षणमुक्तं नतु शक्तेरिति वाच्यम् । यत्परः शब्दः स शब्दार्थ इति न्यायानात्पर्यशब्देन तस्या एवात्र ग्राह्यत्वात् । अभिधा शक्तिः सामर्थ्य तात्पर्यमित्यनान्तरम् । ननु तत्राप्युदाहृतग्रन्थे तार्किकसंमत. शक्त्यतिरिक्तः शब्दनिष्टो धर्मविशेष एव शक्तिलक्षणत्वेन संमतस्तत्कथं त्वदुक्त
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy