________________
साहित्यसारम् ।
[ पूर्वार्धे
ऐरावतरत्नम् २. काव्याविभूतिहेत्वादिप्रोच्यैवमथ बोधये।
द्विजोक्तशब्दाद्युक्त्यैव स्वरसझं सती यथा ॥१॥ ___ अथारभ्यमाणप्रकरणस्य पूर्वप्रकरणेन सह संगतिं सूचयन् वृत्तानुवादपूर्वकं शब्दार्थस्वरूपनिर्णयविवरणं प्रतिजानीते-काव्येति । अहमित्यध्याहारः । एवं पूर्वप्रकरणोक्तरीत्या काव्याविभूतिहेत्वादिकाव्यस्य प्रागुक्तलक्षणप्रबन्धस्य आविभूतिः वाल्मीक्यादिमुखत इव ववदनतः प्रादुर्भावः । एतेन सत्कार्यवादः सूचितः । तथाच बीजरूपेण यावच्छब्दब्रह्ममायावच्छिन्ने ब्रह्मणि वर्तत एव परंतु तत्तत्सामग्रीसमवधानेन प्रादुर्भवतीति तात्पर्यम् । तेनान्तर्याम्येव तत्कर्तेति सिद्धम् । अतएवात्राहंपदाप्रयोगः । तस्य हेत्वादि हेतुस्वरूपप्रयोजनादि, पक्षे 'शुक्रो दैत्यगुरुः काव्यः' इत्यमरोक्तेर्ब्राह्ममुहूर्ते संजातस्य शुक्रोदयस्य यद्धत्वादिदीपपाण्डिमत्वादि प्रातःसामीप्यव्यञ्जकमित्यर्थः । अत्रादिपदात्तर्कादिग्रहः । प्रोच्य प्रकर्षणाने. कग्रन्थरहस्यग्रथनलक्षणेनोत्कर्षणोक्त्वेत्यर्थः । पक्षे 'अभूत्प्राची पिङ्गा रसपतिरिव प्राश्य कनकं गतच्छायश्चन्द्रो बुधवर इव ग्राम्यसदसि । परिक्षीणास्तारा नृपतय इवानुद्यमपरा न राजन्ते दीपा द्रविणरहितानामिव गुणाः'इत्यादिश्लोकपठनलक्षणेन। शास्त्रीयादिचातुर्यरूपेणोत्कर्षेणोक्त्वेतियावत् । अथ निरुक्तोक्त्यनन्तरम् द्विजोक्तशब्दाद्युक्त्यैव द्विजाः काव्यप्रकाशकारमंमटभट्टादयः प्राचीना अलंकारशास्त्राचार्या ब्राह्मणास्तैरुक्ताः स्वस्वग्रन्थे प्रतिपादिताः ये शब्दादयः रामादिशब्दादयः । आदि. पदेनार्थग्रहः । तेषां या उक्तिः स्वरूपकथनं तयेत्यर्थः । एवकारेण निर्मूला. भिनवकल्पनव्यावृत्तिः।पक्षे द्विजाः कोकिलादयः पक्षिणः। 'दन्तविप्राण्डजा द्विजाः इति कोशः । तैरुक्ताः प्रत्यूषकाले स्वाभाव्येनोचारिता ये शब्दाः कुहूरित्यादिरवास्ते द्विजोक्तशब्दाः । आदिपदाद्गोवत्सध्वनिग्रहणम् । तेषां या उक्तिः कथनं 'भोः प्राणनाथाः श्रीमद्भिर्युत्थातव्यं विमुच्य माम्।ब्राह्म मुहूर्ते कूजन्ति कोकिला धेनुवत्सकाः' इत्याद्याकारा योक्तिस्तयेत्यर्थः । अवधारणेन निरुक्तश्लोकस्थपूर्वार्धकथनव्यावृत्तिः तस्योत्तरार्धोक्तपूर्वोदाहृतश्लोकोक्तपदार्थैर्व्यञ्जनयैवोक्त्यौचित्यादन्यथाऽसतीलापादकामर्यादासंभवाच । खरसझं खस्य खकीयग्रन्थस्य यो रसज्ञस्तं गुणज्ञमित्यर्थः । एतेन मूढमत्सरिणोय॒दासः। एवमित्यनुकृष्य योज्यम् । तथाच वक्ष्यमाणं शब्दादीत्यर्थः । पक्षे भोः प्राणेत्यादिव्युत्थानकथनम् । बोधये ज्ञापयामीत्यर्थः । शब्दादिज्ञानकौशलशालिनं करोमीतियावत् । पक्षे खस्या अधररसज्ञम् । तत्रानुरूपो दृष्टान्तः सतीति । अत्र सतीपदेनोक्तबोधनार्हवं ध्वनितम् । अयं भावः-पूर्वप्रकरणे शब्दसमूहविशेषः काव्यमिति तत्सामान्यलक्षणे सिद्धे तत्र शब्दादिखरूपजिज्ञासायामवसरसंगत्यात्र तद्विवरणं क्रियत इति । ननु खरसजिज्ञासुमित्येव वाच्यं ज्ञस्य बोधनानुपयोगादिति चेन । खस्य रसं परोक्षं जानातीत्यभिप्रेतत्वेन बुभुत्सोरपि ग्रहणाद्वधस्य तूक्तगुणप्रकाशनार्थमेव ग्रहणम् ।