________________
धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् ।
हंसा लसन्ति ते तीरे गौरीस्मेरा इवेश्वरे । रिङ्गत्तुङ्गतरङ्गागि गङ्गे निःसङ्गतास्तुमे ॥ ३३ ॥ तद्धे तुस्तत्स्वरूपानुकूला शब्दाद्युपस्थितिः। सा देवतादिकृपया शास्त्राभ्यासादितोथवा ॥ ३४ ॥ गोक्षीराब्धेः शिवगुरुविबुधसहायोऽच्युतः समुद्दधे ।
हेत्वादिनिर्णयपरं धन्वन्तरिसंज्ञकं प्रथमरत्नम् ॥ ३५॥ नत्वं चमत्कारजनकत्वं गुणत्वं तु तदनुकूलत्वमेव ज्ञेयम् ॥ ३२ ॥ क्रमेणोदाहरति-हंसा इति । ईश्वरे शिवे गौरीस्मेराः पार्वतीस्मितकान्तयः । गङ्गातीरस्य सितसिकतामयत्वेन शुक्लत्वाच्छिवसाम्यम् । अत्रोपमालंकाररूपार्थस्यैव चमत्कारि. त्वादनुप्रासादिशब्दालंकारस्य तु तदनुकूलत्वादर्थचित्राख्यं मध्यमकाव्यत्वम् । यथावाऽस्मदीयनीतिशतपत्रे-'तारुण्यारोपितगुणे सुन्दरीभ्रूशरासने । नम्रत्वमेव संपा. द्य जगज्जयति मन्मथः' इति । रिङ्गदिति । रिङ्गन्तश्चलन्तः अतएव तुङ्गाः पृथुला ये तरङ्गास्तन्मयं अहं शरीरं यस्यास्तत्संबुद्धौ । अत्रानुप्रासरूपशब्दालंकारस्यैव प्राधान्याच्छब्दचित्राख्याधमकाव्यत्वमेव । एतादृशकाव्यस्य भूरिप्रसिद्धत्वानोदाहरणान्तरं मयोच्यते । एवं ध्वन्यादिचतुर्विधं काव्यं सिद्धम् ॥ ३३ ॥ एवं ध्वन्यादिरूपं काव्यं चतुर्विधपुरुषार्थप्रयोजकत्वेन प्रेक्षावतां परमादरणीयमित्युक्वाऽधुना कथमेतदनुपमं हितसाधनं कर्तुं सामर्थ्यमाविर्भूयादिति शिष्याशङ्कायां तदुपायमुपदिशति-तद्धतुरिति । तस्य निरुक्तध्वन्यादिकाव्यस्य हेतुः। कारणमित्यर्थः । तस्य काव्यस्य रूपं ध्वन्यादिलक्षणं वपुस्तस्मै अनुकूला या शब्दाद्युपस्थितिः शब्दानां रामादिपदानां अर्थानां अनन्तकल्याणगुणाधिकरणपरमेश्वरादिरूपाणां उपस्थितिः स्फूर्तिरित्यर्थः । सैव कथं स्यात्तत्राह-सेति । प्रथमादादिपदासद्गुरुमहापुरुषादेर्ग्रहः, द्वितीयेन तु लौकिककौशलादेरिति ॥ ३४ ॥ इदानीं प्रकरणनाम स्वनाम च श्लेषेण कथयन्नपसंहरति-गोक्षीराब्धेरिति । गोर्वाण्याः क्षीराणीव क्षीराणि सारांशास्त एवापः उदकानि धीयन्ते यस्मिन् स तथा । वाक्सारीभूतसाहित्यशास्त्रदुग्धाम्बुधेः सकाशादित्यर्थः । पक्षे गावः आविर्भविष्यमाणचन्द्रस्य किरणाः कामधेनवो वा तद्विशिष्टो यः क्षिराधिस्तस्मादित्यर्थः । शिवेति । शिवः शंकरः गुरवः, श्रीमन्नारायणशास्त्रिप्रभृतयः, विवुधाः पण्डितास्ते सहाया यस्य स तथा । पक्षे गुरुव॒हस्पतिः, विवुधा देवाः, अच्युतः प्रकृतग्रन्थकृत् पक्षे विष्णुः । अत्रास्मच्छन्दाप्रयोगस्तस्मिन् कर्तृत्वाभावोऽस्येश्वरप्रेरणाजन्यलं च सूचितम् । हेलादिनिर्णयेति, हेतु: 'काव्यकारणम्' । आदिना तत्प्रयोजने स्वरूपे तेषां यो निर्णयो विवेकेनावधारणं तत्र परं सादरमित्यर्थः । पक्ष हेलादयः कफादितजन्यरोगाः । शेषं स्पष्टम् ॥ ३५॥ इति स्वकृतसाहित्यसारव्याख्यायां सरसामोदसमाख्यायां प्रथमप्रकरणं संपूर्णम् ।