________________
साहित्यसारम् ।
द्वितीयं तूत्तमं ज्ञेयमष्टधा परिकीर्तितम् । विवेकोदयतः सूर्यस्तप्तश्चन्द्रः कलङ्कितः ॥ ३१ ॥ द्विधान्यमपि भूर्येव मध्यमं चाधमं क्रमात् । गुणप्रधानभावेन मिथः शब्दार्थयोः स्थितेः ॥ ३२ ॥ दिक् । अत्रार्धद्वयं क्रमात् शब्दार्थालंकारयोर्गुणीभावाभिप्रायेणेति ज्ञेयम् । रूपकपरिकरावलंकारौ । शेषं तु प्रागुक्त दिशात्रापि योज्यमित्यलं विस्तरतः ॥ ३० ॥ अथ क्रमप्राप्तं गुणीभूतव्यङ्ग्यलक्षणं द्वितीयं सरसकाव्यभेदमुद्दिश्य तस्योत्तमत्वं वक्ष्यमाणलक्षणमष्टविधभेदभिन्नत्वं च विधत्ते - द्वितीयं त्विति । वैलक्षण्यावद्योती तुशब्दः । परिकीर्तितं काव्यप्रकाशादौ स्पष्टं उपपादितमित्यर्थः । एतेनोतकल्पनायाः समूलत्वं सूचितम् । तस्माद्गुणीभूतव्यङ्गयत्वमुत्तमकाव्यत्वमिति तलक्षणं सिद्धम् । तदुदाहरति-- विवेकोदयत इति । विवेकः ब्रह्मात्मैक्यावबोधस्तस्योदयेन विचारितमहावाक्यादधिकारिणि प्रादुर्भावेनेत्यर्थः । सार्वविभक्तिकत्वात् तृतीयार्थस्तसिः । अयंभावः — सूर्यचन्द्रयोर्मनसि तमोपहारकत्वशान्तिकारकत्वगर्वः प्रागतीवासीत्, यदा प्रभृति संसारेऽस्मिन्नुक्तविवेकोदयः कस्मिंश्चिदधिकारिणि संपन्नस्तदारभ्यैव तस्यैवोक्तधर्मद्वयं निरतिशयमुभावपि यथा क्रममवेक्ष्य स्वावमानात्संतापकलङ्कभागिनौ तौ संपन्नौ नतु तयोः पूर्व तप्तत्वं कलङ्कितत्वं चासेति । तेनैवंजातीयकव्यङ्गयार्थस्यात्र विवेकोदयमात्रेण सूर्यचन्द्रयोस्तप्तत्वादिरूपवाच्यार्थापेक्षयाधिकचमत्कार हेतुत्वाभावाद्गुणीभूतव्यङ्गयत्वं तथा स्पष्टत्वाद्गूढव्यङ्ग्यत्वमपि बोध्यम् । उत्तमत्वं तु व्यङ्गयार्थसत्त्वाद्युक्तमेव । तस्मान्निरतिशयाविद्यातम:शामकः शान्तिदायकश्च विवेक एवादरणीय इति ध्वनितम् । यथावा मदीयाद्वैतामृतमञ्जर्याम्-'रसभरितापि गतरसा चतुरतराप्यतुलमन्थरोत्थाने । विलसति मतिरेकान्ते शान्तस्येयं रतान्तकान्तेव' इति । अत्रोक्तमतिरप्युक्तकान्तातुल्यैवेति किं कान्तयेति निर्वेदलक्षणं व्यङ्गयं तु गौणमेवेति । अत्र शान्त एव रसः, गम्योत्प्रेक्षालंकारः । तलक्षणं तु अत्राग्रे वक्ष्यते ॥ ३१ ॥ एवं सरसकाव्यभेदद्वयमुक्त्वाथ चित्रकाव्यस्यापि द्वैविध्यं प्रतिजानीते - द्विधेति । अन्त्यं चित्राख्यं द्विधा द्विप्रकारम् । तस्य द्विविधस्यापि प्रत्येकं बहुप्रकारत्वं विधत्ते - भूर्ये - वेति । वक्ष्यमाणोपमादिनानाविधभेदभिन्नमेवेत्यर्थः । किं तद्विविधत्वमित्यत आह - मध्यमं चेति । तत्र हेतुं वदंस्तलक्षणे अपि द्योतयति - गुणेति । शब्दार्थयोः सुबन्तादेः शक्तस्य वा पदस्य तद्वाच्यस्यार्थस्य चेत्यर्थः । इदमेव भेदद्वयं काव्यप्रकाशादौ शब्दचित्रं वाच्यचित्रमित्युक्तम् । मिथः परस्परं गुणप्रधानभावेन गुणप्रधानयोर्भावस्तेन गुणलेन प्रधानत्वेन चेत्यर्थः । स्थितेः विद्यमानत्वादि • त्यर्थः । एवं चार्थप्राधान्ये सति गुणीभूतशब्दत्वं मध्यमकाव्यलं शब्दप्राधान्ये सति गुणीभूतार्थत्वमधमकाव्यत्वं चेति तयोर्लक्षणे फलिते इत्यर्थः । अत्र प्रधा
२०
[ पूर्वार्धे