________________
चन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् ।
१९ नतु तस्यापि तदन्वेषणीयम्' इति न्यायेन दोषतादवस्थ्यमेवेतिचेन्न । प्रकृते वक्तुरद्वैतानन्दरूपतया श्रव्यप्रयोगाननुसंधानस्य प्रत्युत गुणत्वाद्दोषत्वस्य तु दूरोसारितत्वाच्च। अतएव रसगङ्गाधरेऽपि शान्तरसोदाहरणे—'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः' इत्युक्त्वाऽत्रेत्यादिना तदालम्बनाद्यभिधाय यद्यपि प्रथमा उत्तमाधमयोरुपक्रमाद्वितीयार्धे अधमोत्तमवचनं क्रमभङ्गमावहति तथापि वक्तुब्रह्मात्मकतया उत्तमाधमभावज्ञानवैकल्यं संपन्नमिति द्योतनाय क्रमभङ्गो गुण एवेत्युक्तम् । मम तूक्तरसगङ्गाधरोदाहरणेऽप्युक्तक्रमभङ्ग एव नास्ति, तत्रापि उत्तमाधमक्रमस्यैव श्वपचेत्यादावपि सत्त्वात् । तथाहि ‘मकरध्वज आत्मभूः' इत्यमरादात्मभुवः कामस्य वपचशब्दवाच्यचाण्डालापेक्षयाप्यधमत्वं तु चाण्डालस्यापि क्वचिदपि गुरुतल्पगमनप्रेरकत्वाप्रसिद्धर्मदनस्य तु चन्द्रं तारायां गुरुपत्न्या रमयितुस्तत्प्रसिद्धेर्युक्तमेवेति गोदेव बोधयति । यद्वा मदनस्य देवत्वेन चाण्डालापेक्षयाधमत्वध्वननमनुचितमेव निवृत्तस्यापि वक्तरिति केषांचित्प्रवृत्तानां श्रद्धाजडानामाशङ्का चेत्पूर्वार्धपि शृङ्गारस्योद्दीपनालम्बनावभावयोर्मलयानिलरमणीकुन्तलयोनिरुक्तवऋदशा कालकूटभोगिभोगापेअया अधमत्वमेवेति नैव क्रमभङ्गः क्व पुनस्तद्वारणमिति दिक् । वस्तुतस्तु कनकं कामिनी चंत्यत्र निरुक्ताश्रव्यत्वलक्षणो दोष एव नास्ति । ककारयोरनुस्वारेण व्यवधानात् । तस्मान्न किंचिदेतत् । यत्तु कोविदः क इति जिह्वामूलीयप्रयोगस्य शान्तरसानुचितत्वेन दोषत्वमुक्तं तदपि न । रसगङ्गाधर एव मधुररसेषु वर्जनी. यानुक्त्वा अन्ते असकृत्प्रयोगं नैकट्येन वर्जयेदित्युक्तत्वेन तेषां सकृत् प्रयोगे त्वदोषत्वस्यार्थत एव सिद्धत्वात् । अत एव काव्यप्रकाशे शान्तरसोदाहरणे सकृजिह्वामूलीयप्रयोगः । तद्यथा 'अहो वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्तु दिवसाः क्वचित्पुण्येऽरण्ये शिवशिवशिवेति प्रलपतः' इति। तस्मान कोऽप्यत्र दोषलेशोऽपीति युक्तमेवेदमुदाहरणम् । यथा वा मदीयनिरञ्जनमञ्जर्याम्—'मधुरैरलमङ्गनाङ्गसङ्गैरपि संगीतसुधाम्बुधेस्तरङ्गः । अधुना रमते मनो मदीयं परमानन्दघने गतद्वितीये' इति । अत्रापि निर्वेद एव प्राधान्येन व्यज्यते वाच्यार्थादिकं तु तत्र गुणीभूतमेव । यथावा तत्रैव-'रे बालकोकिल कलैरलमुत्पलाक्षि लोलैरलं तव विलोचनयोर्विलासैः । माकन्दगन्धलहरीभिरपीह वायो खान्तं तु मेऽद्य परमात्मनि शान्तिमेति' । यथावा-'किं मन्दमन्दहसितैरसितैरपाझरुन्मीलदिङ्गितवचो. मृतपूरभङ्गैः । वाले वयं तु निगमान्तमतेन तृप्ताश्चेतो न मायिकसुखे विनियोजयामः' इति । अत्र यद्यपि मधुररसेषु तु दीर्घसमासेत्यादिना रसगङ्गाधरे दीर्घसमासस्य शान्तरसादौ वर्जनीयत्वोक्तस्तृतीयचरणे तत्सत्वं दोष इव भाति तथापि मलयानिलेत्युक्ततदुदाद्दरण एव पूर्वार्धं तत्सत्वारिक मयैवापराद्धं तथापि यदि वक्तुरद्वैतनिष्ठत्वेनानुसंधानाभाव एव तत्र शरणं तर्हि प्रकृतेऽपि तदेवास्त्विति