SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ साहित्यसारम् । [ पूर्वार्धे " मित्यर्थः । दिव्यसरसशब्दसुधापानैरपि न किंचित्प्रयोजनमिति भावः । अत्रामृतरूपकेण तस्य कनकाद्यपेक्षयाऽदरणीयत्वं ध्वन्यते । 'स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्' इति श्रुतेर्निरुक्तकाव्योपलक्षितयावच्छब्दब्रह्माभ्यासरूपे धर्मे तथा पूर्वार्धोक्त कनककामिनीशब्दितार्थ कामयोश्चानादरे हेतुं वदन् स्वं विशिनष्टिआनन्देति । 'रसो वै सः ' ' एको देवः' ' विज्ञानमानन्दं ब्रह्म' इत्यादिश्रुतिभ्यः अद्वैतानन्दचिदेकरूपस्येत्यर्थः। तस्मात् 'एतावदरे खल्वमृतत्वम्' इति श्रुतेर्मोक्षस्यात्मतत्त्वाभिन्नत्वात्तद्रूपस्य ममैव बुद्धिवृत्तिविशेषप्रतिफलितसुखाभासैः 'एष येबानन्दयाति’ ‘एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति' इति च श्रुतौ स्पष्टमुपपादितैर्धर्मादिपुरुषार्थेन किमपि प्रयोजनमित्याशयः । अत्रानन्दैकरसस्येत्यनुभावेन कनककामिनीकाव्यामृतास्वादरूपालम्बनविभावेन कोविद इत्युद्दीपनविभावेन स्मृत्यादिसंचारिभावेन च समुच्चितेन परिपुष्टः किंशब्दालंशब्दाभ्यां धर्मादिपुमर्थत्रयोपलक्षितयावद्वैते निर्वेद एवाभिव्यज्यते तेनात्र रूपकाद्यलंकारापेक्षया शान्ताख्यस्य रसस्य प्राधान्यात्सरसत्वं तत्रापि कनकादिकामुकविद्वदाक्षेपस्य स्वस्मिन्नद्वैतानन्दत्वेन काव्यामृताखादालभावस्य च वाच्यार्थस्यापेक्षया निरुक्तव्यङ्गधार्थस्यैवाधिक चमत्कारकारित्वात्प्रधानीभूतव्यङ्गयत्वं तेन ध्वनिसंज्ञत्वं ततश्चोत्तमोत्तमत्वं सिद्धम् । अनुभावादीनां स्वरूपं त्वग्रे तत्तत्प्रकरणे वक्ष्यामः । उक्तं हि काव्यप्रकाशादौ – 'व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतः' इति । ‘निर्वेदस्थायीभावाख्यः शान्तोऽपि नवमो रसः' इति च । नन्वत्र पूर्वार्धे कनकं केति ककारस्य ककारानन्तर्य किंचिदश्राव्यं तथा कोविदः क इति जिह्वामूलीयप्रयोगोऽपि शान्तरसाऽनुचित एवेति दोषद्वयसत्त्वान्नैवास्योक्तलक्षणकाव्यत्वम् । तदुक्तं रसगङ्गाधरे – 'वर्णानां स्वानन्तर्य सकृदेकपदत्वे किंचिदश्रव्यम् । यथा ककुभः सु. सुरभिः विततगात्रः पललमिवाभाति' इत्यादौ । असकृच्चेदधिकं यथा-' - 'वितततरस्तरुरेष भाति भूमौ' । एवं भिन्नपदत्वेपि यथा - ' शुक करोषि कथं विजने रुचिं ' इति । तथा तत्रैव मधुररसेषु वर्जनीयानुपक्रम्य जिह्वामूलीयोपध्मानीयानामिति तंत्र तस्य संग्रहः कृतः । तस्मादयुक्तमेतदुदाहरणमिति चेन्न । किंचिदश्रव्यस्यादोषत्वात् । नोचेत्तत्रैव पूर्वग्रन्थे प्रसादाख्यगुणोदाहरणयोः कथं तदुक्तम् । - 'चिन्तामीलितमानसो मनसिजः सख्यो विहीनप्रभाः प्राणेशः प्रणयाकुलः पुनरसावास्तां समस्ता कथा । एतत्त्वां प्रतिवेदयामि मम चेदुक्ति हितां मन्यसे मुग्धे मा कुरु मानमाननमिदं राकापतिर्जेष्यति' इत्यत्र सामान्यतो वर्जनीयम सकृत् मिममेतिमकाराख्यवर्णस्य भिन्नपदत्वे स्वानन्तर्य तथा ननमित्येकपदत्वेऽपि तत् । तथा प्रभाः प्राणेशः प्रणयाकुलः पुनरित्युपध्मानीय प्रयोगोऽपि । एवं 'वाचा निर्मलया सुधामधुरया यां नाथ शिक्षामदास्तां स्वप्नेऽपि न संस्पृशाम्यहमहं भावावृतो निस्त्रपः । इत्यागः शतशालिनं पुनरपि स्वीयेषु मां बिभ्रतस्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तोऽपरः' इत्यत्र यांयामिति 'यदि दैवज्ञोक्तं स्वकीयभविष्यदाद्येव ज्ञातव्यं तद्यथा १८
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy