SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ धन्वन्तरिरत्नम् १] सरसामोदव्याख्यासहितम् । कनकं कामिनीं चापि कोविदः कोऽद्य कामयेत् । अलं काव्यामृतास्वादैरानन्दैकरसस्य मे॥ ३०॥ तद्यथा 'शब्दार्थचित्रं यत्पूर्व काव्यद्वयमुदाहृतम् । गुणप्राधान्यतस्तत्र स्थितिः शब्दार्थचित्रयोः' इत्यादिना सप्रमाणं सोदाहरणं च तत्रोक्तकाव्यभेदद्वयमुक्त्वान्ते यद्यपि सर्वत्र काव्येऽन्ततो विभावादिरूपतया रसपर्यवसानं तथापि स्फुटरसस्यानुपलम्भादव्यङ्गयमेतत्काव्यद्वय मुक्त मिति चोक्तं कण्ठत एव रसवत्त्वमस्मिन् काव्यद्वये । तस्माच्छब्दचित्रापेक्षया अर्थचित्रे सरसताधिक्यस्य 'विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्रमेन्द्रद्रुतपातितार्गलानिमीलिताक्षीव भियाऽमरावती' इत्यादौ काव्यप्रकाशीयोदाहरणे स्पष्टतरमुपलभ्यमानवत्त्वात्तस्य मध्यमत्वे वक्तव्ये ततोऽधिकरसे गुणीभूतव्यङ्गयरूपे तत्पूर्वतने काव्यभेदविशेषे तूत्तमत्वं वाच्यमेव । ततः प्रथमस्यास्य रसवत्तमस्य ध्वनिसंज्ञस्य कुतो नोत्तमोत्तमतेति सहृदयैरेव निवेदनीयम् । अतएव मयोभयकवाक्यतासंपादनाय रसालंकारेति पूर्वश्लोके काव्यप्रकाशीयतात्पर्यानुसारेण सरसं चित्रं चेति काव्यभेदद्वयमुक्त्वाथात्र रसगङ्गाधरीयरीत्या भेदचतुष्टयं वक्तुं सरसस्य प्रथमभेदस्य द्विधात्वं प्रतिज्ञाय तत्र हेतुव्यपदेशेन तयोर्लक्षणमपि संक्षिप्य तत्राद्यस्य ध्वनित्वमुत्तमोत्तमत्वं चोक्त मिति दिक् । एवमग्रेऽपि विरोधपरिहारः कल्प्यः । यत्तु त्वया केचिदित्यादिना काव्यप्रकाशखण्डनमुदाहृतं तत्तु ये तावदेवं काव्यप्रकाशाशयं मदुक्तमविज्ञायापाततस्तदुक्तभेदत्रयाभिमानिनस्तत्परमेवेति सर्व सुस्थम् ॥२९॥ उक्तलक्षणं व्यङ्गयप्राधान्यशालिध्वन्यभिधमुत्तमोत्तमं काव्यमुदाहरति-कनकमिति । अद्य कमलासनान्तदृश्यमिथ्यात्वदार्योदयकाले कः कोविदः 'विद्वान्विपश्चिद्दोषज्ञः सन्त्सुधीः कोविदो बुधः' इति कोशोक्तेः कः पण्डितः । कनकं सुवर्ण तथा कामिनीमपि अङ्गनामपि । अत्र अपिशब्देन यावत्स्त्रीगुणविशिष्टायाः स्वकीयतरुणीरूपायास्तस्याः सर्वब्रह्मादिभिरपि कामितत्वात्कनकापेक्षया तस्यां सुखहेतुत्वाधिक्यं द्योतितम् । कामयेत् वाञ्छाविषयीकुर्यादित्यर्थः । मृगजलवत्तयोरपि मृषात्वान्न कोपि विवेकी तत्कामनां कुर्यादिति भावः । अत्र कोविदपदं 'साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णी पुरुषार्थानां दाता देवश्चतुर्भुजः' इत्युक्तेः परिकराङ्कुरसूचकम् । तेन यतः कोविदः अतो नैवोक्तकामनां कुर्यादिति रहस्यं द्योतितम् । यदा अन्योपि कश्चिद्विपश्चित्कनककामिन्यौ नैव कामयेत्तदा अहं न कामये इति किमु वक्तव्यमिति विरक्तिः सूचिता । न केवलमेतावदेव किंतु 'मुने मन्दारमञ्जर्यस्तरङ्गा वाऽमृताम्भसः । न तथा हादयन्त्यन्तर्यथा सज्जनसूक्तयः' इति योगवासिष्टवचनात्सज्जनसूक्तिशब्दिततादृक्काव्यस्य कल्पद्रुममञ्जरीभ्योऽपि तथा सुधाब्धितरङ्गेभ्योऽप्यधिकतमानन्दहेतुत्वोत्केस्तदपि निरुक्तहेतोरेव नैव मा रोचत इत्याह-अलमिति । मे ब्रह्मविदः काव्यामृताखादैः काव्यपीयूषपानरसानुभवैः अलम् । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरोक्तेः पर्याप्त.
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy