SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ १६ साहित्यसारम् । तत्राद्यं तु द्विधा व्यङ्गव्यप्रधानगुणभावतः । प्रथमं ध्वनिसंज्ञं स्यान्नानाभेद्युत्तमोत्तमम् ॥ २९ ॥ [ पूर्वार्धे लोकीयोपमोदाहरणे गौणत्वेन शृङ्गाररससत्वेऽपि नाव्याप्तिः । अत्र स्वपदेन स्वधर्मः शेषेण योग्यता च सूचिता ॥ २८ ॥ तत्र प्रथमोद्दिष्टस्य सरसस्यापि द्वैविध्यं प्रतिजानीते — तत्रेति । तत्र सरसचित्रकाव्ययोर्मध्ये इत्यर्थः । तुशब्दः पुनरर्थे । आद्यं सरसाख्यम् । तत्र हेतुं वदन् द्विविधयोस्तयोर्लक्षणमपि संक्षिपतिव्यङ्गयेति । प्रधानं च गुणश्च प्रधानगुणौ तयोर्भावौ व्यङ्ग्यस्य प्रधानगुणभावौ ताभ्याम् । व्यङ्गयं प्राधान्येन व्यङ्गयगुणभावेन चेत्यर्थः । तयोर्मध्ये प्रथमस्य व्यङ्गप्राधान्यवतः सरसकाव्यभेदस्य ध्वनित्वमुत्तमोत्तमत्वं चाभिदधंस्तद्भेदानामनेकविधत्वमपि विधत्ते-प्रथममिति । तस्माद्यङ्गयप्राधान्यवत्त्वं ध्वनित्वमुत्तमोत्तमत्वं चेति तलक्षणं फलितमित्यर्थः । तत्र गुणीभूतव्यङ्गये उत्तमत्वेन वक्ष्यमाणे व्यभिचारवारणाय प्राधान्येति । ननु – 'इदमुत्तममतिशयिनि व्यङ्गये वाध्याद्धनिर्बुधैः कथितः' इति काव्यप्रकाशेऽस्योत्तमत्वमेवोक्तं त्वया तूत्तमोत्तमत्वमुच्यत इत्यभि• नवमिदमितिचेन्न । तदाशयं विवृण्वद्भिर्जगन्नाथपण्डितैरेवमेव रसगङ्गाधरे प्रतिपादितत्वात् । तथाहि तत्र काव्यलक्षणं तद्धेतुं चाभिधायोक्तम् । तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्विधमिति । नच केचिदिमानपि चतुरो भेदानगणयन्त उत्तममध्यमाधमभावेन त्रिविधमेव काव्यमाचक्षते तत्रार्थचित्रशब्दचित्रयोरविशेषेणाधमत्वं युक्तं न वक्तुम् । तारतम्यस्य स्फुटमुपलब्धेरित्यादिना तत्रैव प्रत्युत काव्यप्रकाशखण्डनोपलब्धेः क्व नाम तस्य तद्विवरणशङ्कापि । ततस्त्वदुक्तिस्तदनुसारिण्यपि साहित्यशास्त्रे महामान्येन काव्यप्रकाशेन साकं विरुद्वैवेति वाच्यम् । तस्य पूर्वोत्तर तात्पर्य पर्यालोचने तु निरुक्तरीतेरेव तर्त्समतत्वात् । तथाहि काव्यप्रकाशे तावत् 'शब्दचित्रं वाच्यचित्रमव्यङ्गयं त्ववरं स्मृतम्' इति सूत्रव्याख्याने अव्यङ्गयमिति स्फुटप्रतीयमानार्थरहितमित्यव्यङ्गयपदार्थो व्याख्यातः । तेन तत्र स्पष्टतयावभासमानचमत्कारजनकतावच्छेदकावच्छिन्नरसलक्षणव्यङ्ग्यार्थ राहित्यादेवोक्तध्वन्यादिकाव्यभेदापेक्षयाऽधमत्वं सिद्धम् । तस्मादनयोः शब्दचित्रार्थचित्राख्यभेदयोरपि मध्ये यत्र अस्फुटस्यापि निरुक्तार्थस्येतरापेक्षयाधिक्यं स काव्ये भेदस्ततोऽधिकः इति कुतो नास्य संमतं स्यात् । नन्वेवं तर्हि किमिति तत्र साधारण्येनोभयोरप्यवरत्वमुक्तं किमिति वा अर्थचित्रापेक्षया अधमस्य शब्दचित्रस्यैव प्रथममुद्देशः कृत इति चेन्न । अवान्तरतारतम्येऽपि निरुक्ताव्यङ्गयत्वस्योभयोरपि साधर्म्येण वर्तमानत्वात् । उद्देशक्रमस्य तु 'तददोषौ शब्दार्थौ' इति साधारणकाव्यलक्षणे शब्दस्यैवार्थबोध हेतुत्वेनाभ्यर्हिततामात्रसूचकत्वेन तद्रीत्यात्राप्यर्थचित्रापेक्षयोत्तमत्वरूपदोषानाधायकत्वाच्च । अतएव निरुक्तशब्दार्थचित्रयोरपि गूढं रसवत्त्वमस्त्येवेति यथायोग्यं तयोरेवान्तरतम्यं सूरिभिरूह्यमिति स्वकीयाशयोद्घाटनार्थमेव प्रथ• मोल्लासे निरुक्तमपि शब्दचित्रादिभेदयुगं षष्टोलासे पुनः प्रतिपादितं मम्मटभटैः ।
SR No.023485
Book TitleSahityasaram
Original Sutra AuthorN/A
AuthorAchyutrai, Vasudev Lakshman Shastri
PublisherTukaram Javaji
Publication Year1906
Total Pages576
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy