________________
कौस्तुभरत्नम् ८] सरसामोदव्याख्यासहितम् ।
३७३ इत्थमेकोनविंशत्या लुप्तया मिलिता तथा । षोढया पूर्णया चेति पञ्चविंशतिधोपमा ॥ ३३ ॥ श्रोती वाक्यगता पूर्णा सा यस्यां वर्ण्यमञ्जुनोः।
गीःसाधर्म्यस्य चेवादेः श्रीस्ते धीरिव निश्चला ॥ ३४॥ मेवेत्याह-लुप्तेति । धर्मोपमानवाचकप्रयुक्तलोपवतीत्यर्थः॥ ३२ ॥ उपसंह. रति-इत्थमिति । सकलमप्येतद्भेदजातमुक्तं रसगङ्गाधरे । अस्याश्चोपमायाः प्राचामनुसारेग केचिद्भेदा उदाह्रियन्ते । तथाहि उपमा द्विधा पूर्णा लुप्ता च । पूर्णात्वत्र श्रौत्यार्थी चेति द्विविधा भवन्ती वाक्यसमासतद्धितगामितया षोढा । लुप्ता चोपमानलुप्ता धर्मलुप्ता वाचकलुप्ता धर्मोपमानलुप्ता वाचकधर्मलुप्ता वाचकोपमेयलुप्ता धर्मोपमानवाचकलुप्तेति तावत्सप्तधा । तत्रोपमानलुप्ता वाक्यगा समासगा चेति द्विविधा । धर्मलुप्ता समासगा श्रौत्यार्थी वाक्यगा श्रौत्यार्थी तद्धितगता चार्येव न श्रौतीति पञ्चविधा। वाचकलुप्ता समागता कर्मक्यजूगताऽऽधारक्यजगता क्यङ्गता कर्मणमुलूगता कर्तृणमुल्गता चेति षड़िधा । धर्मोपमानलुप्ता वाक्यगता समासगता चेति द्विविधा । वाचकधर्मलुप्ता क्विपूगता समासगता चेति द्विविधैव । वाचकोपमेयलुप्ता क्यच्येकविधा । धर्मोपमानवाचकलुप्ता तु समासगतेकविधेत्येवं साकल्येनैकोनविंशतिर्खप्ताया भेदाः पूर्णाभेदैः षभिः सह पञ्चविंशतिरिति ॥ ३३ ॥ एवमुक्तरीयोपमाभेदान्समुद्दिश्य तत्र सा द्विधा पूर्णलुप्तत्वभिदाद्यार्थ्यादितस्तथेति कारिकायां यद्यपि च्छन्दोनुरोधेन षोढा विभिन्नायाः पूर्णोपमायास्तावद्वाक्यगताया आर्थ्या एव प्रथममुद्देशः कृतस्तथाप्यग्निहोत्रं जुहोति यवागू पचतीति पठितश्रुत्योराद्यायाः करणसाकाङ्कत्वादन्यायाः प्रयोजनसाकाहत्वाच्च नष्टाश्वदग्धरथन्यायेनोभयान्वयार्थ पूर्वतन्त्रे यथा पाठक्रमादर्थक्रमस्य बलीयस्त्वमाश्रितमेवमिहापीत्यभिसंधायेदानीमुद्देशक्रमानुसारेण तासां प्रत्येकं लक्षणोदाहरणानि संक्षेपतो विवक्षुरादौ श्रौतीमेव प्रागादिपदनिर्दिष्टां वाक्यगतां पूर्णोपमा संलक्षयति-श्रौतीत्यादित्रिपाद्या । तत्राद्यपादेन लक्ष्यनिर्देश एव । अन्त्याभ्यां तु लक्षणनिर्देश इत्याशयः । एवंच यस्मिन्काव्ये वर्णादिशब्दितोपमेयोपमानयोः साधर्म्यशब्दिततत्साधारणधर्मस्येवादिशब्दिततद्वाचकस्य च गीः शब्दिताशक्तिवृत्त्यैवोक्तिरस्ति यादृशार्थरचनातः प्रतीयते सेह श्रौती वाक्यगता पूर्णोपमा तत्र काव्येऽलंकृतिरित्याकूतम् । तथाच समासादिभिन्नगत्वे सत्यभिधाप्रतीतवाद्यर्थचतुष्टयवं तत्त्वमिति तल्लक्षणं पर्यवस्यति । सत्यन्तं तु समासादिगततयुदासार्थमेव । आदिना तद्धितः। अथ तामुदाहरति-श्रीरित्याद्यन्त्यपादेन । अयि पुण्यश्लोकेत्यार्थिकम् । ते धीरिव धीः संपत्तिः निश्चला सुस्थिरा अस्तीति शेषः । अत्र वये पुण्यश्लोकसंपत्तिरुपमेयम् । मजुतदीयबुद्धिरुपमानम् । निश्चलत्वं साधारणधर्मः । इवशब्दो वाचक इति चतुर्णामपि शक्तिवृत्त्यैवोपस्थितिः । समासादिगतत्वमन्तरैव भातीति लक्षणसंगतिः । यथावा मदीयाद्वैतामृतमञ्जर्याम्-'अन्तर्विरहज्वाला मिहिर